Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 632
________________ प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६२६ एव । 'प्रतिकृतौ' इति निवृत्तम् । बतिरिव बास्तेयम् , बास्तेयी । २०५७ शिलाया ढः । (५-३-१०२) शिलेव शिलेयम् । योगविभागाद् ढमपीत्येके । शैलेयम् । २०५८ शाखादिभ्यो यः। (५-३-१०३) शाखव शाख्यः। मुख्यः । जघनमिव जघन्यः । अभ्यः । शरण्यः । २०५६ द्रव्यं च भव्ये । (५-३-१०४) द्रव्यम् अयं ब्राह्मणः । २०६० कुशाग्राच्छः । (५-३-१०५) कुशाग्रमिव कुशाग्रीया बुद्धिः । २०६१ समासाच तद्विषयात् । (५-३-१०६) इवार्थविषयात्समासाच्छः स्यात् । काकतालीयो देवदत्तस्य बस्तेढम् । निवृत्तमिति । अस्वरितत्वादिति भावः। 'संज्ञायां च' इत्यादिपूर्वसूत्रेषु कापि प्रतिकृतावित्यस्यानिवृत्तेः न लुब्बिधिषु तेषु तदनुवृत्तिरपेक्षिता । बस्तिरिवेति । 'बस्ति भेरधो द्वयोः' इत्यमरः। शिलाया ढः। इवे इत्येव । शिलेव शिलयमिति । दध्यादीति शेषः। योगेति । 'शिलायाः' इत्येको योगः। 'ढञ्' इत्यनुवर्तते, 'इवे' इति च । शैलेयमिति । अित्त्वादादिवृद्धिः, स्त्रियां लीप च फलम् । 'ढः' इति द्वितीयो योगः। 'शिलायाः' इत्यनुवर्तते । उक्तोऽर्थः । शाखादिभ्यो यः। 'यत्' इति त्वपपाठः। तैत्तिरीये 'मुख्यो भवति' इत्यादौ मुख्यशब्दस्य आद्युदात्तत्वदर्शनात् , उगवादिसूत्रभाष्यविरुद्धत्वाच्च । द्रव्यं च भव्ये । द्रुशब्दादिवार्थवृत्तेः यप्रत्ययो निपात्यते भव्ये उपमेये गम्ये । 'भव्य आत्मवान् । अभिप्रेतानामर्थानां पात्रभूतः' इति वृत्तिः। द्रव्यम् अयमिति । दुः वृक्षः, स यथा पुष्पफलादिभाग् एवमभिमतफलपात्रभूत इत्यर्थः । यद्वा दुः कल्पवृक्षोऽत्र विवक्षितः, स इव अभिमतार्थभागित्यर्थः। यप्रत्यये ओर्गुणः अवादेशः । कुशाग्राच्छः। इवे इत्येव : कुशाग्रमिवेति । सूक्ष्मत्वेन सादृश्यम् । कुशाग्रवत् सूक्ष्मेत्यर्थः । समासाश्च । तच्छब्देन प्रकृत इवार्थः परामृश्यते । तदाह इवार्थविषयादिति । इवार्थः सादृश्यमुपमानोपमेयभावात्मकम् , तद्विषयकादित्यर्थः । सादृश्यवदर्थबोधकात् समासादिति यावत् । यद्यपि घनश्याम इति समासोऽपि साहश्यवदर्थबोधकः, तथापि सादृश्यवदर्थबोधकसमस्यमानयावत्पदावयवकात् समासादिति विवक्षितमिति न दोषः । छः स्यादिति । चकारेण पूर्वसूत्रोपात्तच्छस्यानुकर्षादिति भावः । इवार्थे इति शेषः । 'पूगाभ्यः-' इत्यतः प्रागिवाधिकारात् । ततश्च इवार्थकइव प्रतिकृतिः । इंसपथ इव प्रतिकृतिरिति विग्रहः । बस्तिरिति । 'बस्ति भेरधो द्वयोः' इत्यमरः । द्रव्यं च भव्ये । द्रुशब्दादिवार्थे यत्प्रत्ययो निपात्यते । समा. साञ्च तद्विषयात् । तच्छन्देन प्रकृत इवार्थो निर्दिश्यते इत्याह इवार्थविषया. दिति । छः स्यादिति । इवार्थे इति बोध्यम् । 'पूगाळ्यः-' इत्यतः प्रागिवेत्य

Loading...

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716