Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 622
________________ प्रकरणम् ४० ] बालमनोरमा तत्त्वबोधिनीसहिता । [ ६१६ ऊर्ध्वस्य लोपो वाच्यः' (वा ३२६६) । अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः । 'अनजादौ च विभाषा लोपो वक्तव्यः' ( वा ३२१७ ) । देवदत्तकः, देवकः । 'लोपः पूर्वपदस्य च ' ( वा ३२६८ ) । दत्तिकः, दत्तियः, दत्तिलः, दत्तकः । 'विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्य:' ( वा ३२६६ ) देवदत्तः, दत्तः, देवः । सत्यभामा, भामा, सत्या । 'उवर्णांल्ल इलस्य च ' ( वा ३३०२ ) । भानुदत्तः, भानुलः । 'ऋवर्णादपि' ( वा ५०५४ ) । सवित्रियः । सवितृलः । 'चतुर्थादनजादौ वो लोपः पूर्वपदस्य च । श्रप्रत्यये तथैवेष्ट उवर्णाल इलस्य च ॥' कः । नन्विकादेशे सति देविक इत्यत्र अजादित्वादेव सिद्धे ठग्रहणं व्यर्थमित्यत आह उग्रहणमिति । कृत एव ठग्रहणे वायुशब्दात्परस्य दत्तशब्दस्य ठावस्थायामेव नित्यत्वाद् लोपे कृते ठस्य उकः परत्वात्कादेशः सिध्यति । अन्यथा इकादेशे कृते अजादित्वं पुरस्कृत्य दत्तशब्दस्य लोपे सति वायु इक इति स्थिते ठस्याभावात् कादेशो न स्यात् । नच स्थानिवत्त्वादिकस्य ठत्वं शङ्कयम्, 'ठस्येकः' इत्यत्र स्थान्यादेशयोरकार उच्चारणार्थ इति पक्षे अविधित्वात् सन्निपातपरिभाषाविरोधाचेति भाष्ये स्पष्टम् । पितृक इति । पितृदत्तशब्दात् ठचि दत्तशब्दस्य लोपे उकः परत्वात् ठस्य कः । अथ 'चतुर्थादनजादौ वा लोपः पूर्वपदस्य च । अप्रत्यये तथैवेष्ट उवर्णाल्लि इलस्य च ॥' इति वक्ष्यमाणश्लोकवार्तिकं भक्त्वा चतुर्थादच इत्येतद्याचष्टे चतुर्थादच ऊर्ध्वस्य लोपो वाच्य इति । बृहस्पतिक इति । बृहस्पतिदत्तशब्दात् ठचि दत्तशब्दस्य लोपे ठस्य इकादेशः । द्वितीयादूर्ध्वत्वाभावादप्राप्ते वचनम् । श्रजादौ वेति वार्तिकभागं व्याचष्टे अनजादौ च विभाषा लोपो वक्तव्य इति । श्रजादावित्येव सिद्धत्वादत आह ठग्रहणमुको द्वितीयत्व इति । वायुक इति । वायुशब्दात्परस्य दत्तशब्दस्य ठावस्थायामेव लोपे ' इसुसुक्कान्तात् -' इति कः । किंच, पृथक् ठग्रहणस्य प्रयोजनान्तरमप्यस्ति । यदा तु चित्रगुप्रभृतिभ्यष्टच्, तदोगन्तत्वात् कादेशप्राप्त्या प्रथममिकादेशस्याऽसंभवेनाजदिलक्षणो लोपो न स्यादिति तदर्थमपि ठग्रहणम् । तेन ठावस्थायामुत्तरपदलोपे कादेशस्यासम्भवादिकादेशे चित्रिक इति रूपं सिध्यतीति बोध्यम् । ‘चतुर्थादनजादौ च' इति वक्ष्यमाणमेव श्लोकं भङ्क्त्वा व्याचष्टे चतुर्थादच ऊर्ध्वस्येति । अनजादाविति । हलादावित्यर्थः 'अस्मिन प्रकरणे' १ 'च' इति क ।

Loading...

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716