Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 616
________________ प्रकरणम् ४० ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६१३ स्तात्तु । (५-३-६८) ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्वहुज्वा स्यात्स च प्रागेव, न तु परतः । ईषदूनः पटुः बहुपटुः । पटुकल्पः । 'सुपः ' किम् - यजति'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते' इति वचनात् प्रकृतिलिङ्गत्वं बोध्यम् । पचतिकल्पमिति । श्रसंपूर्णा पाकक्रियेत्यर्थः । पचतिरूपमितिवल्लिङ्गवचननिर्वाहः । एवं वृषभकल्प इयं गौरित्यादावपि प्रकृतिलिङ्गत्वं बोध्यम् । 'क्वचित् स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते' इति वचनाद् गुडकल्पा द्राक्षुत्यादौ प्रकृतिलिङ्गातिक्रमः । एतत्सर्वमत्रैव भाष्ये स्पष्टम् । विभाषा । ' ईषदसमाप्तौ ' इत्यनुवर्तते । तदाह ईषदसमाप्तिविशिष्ट इति । प्रागेवेति । सूत्रे तुशब्दोऽवधारण इति भावः । बहुपटुरिति । पटुशब्दात् सुबन्तात् प्राग् बहुचि कृते प्रातिपदिकावयवत्वात् सुपो लुकि समुदायात् पुनः सुबुत्पत्तिः । नच तद्धितान्तत्वाभावात् समासत्वाभावाच्च पूर्वोत्पन्न सुब्विशिष्टस्य प्रातिपदिकत्वाभावात् कथमिह लुगिति वाच्यम्, 'अर्थवत् ' इत्यनेन तस्य प्रातिपदेकत्वसत्त्वात् पटुरित्यस्य पूर्वोत्पन्न सुप्प्रत्ययान्तत्वेऽपि बहुपटुरिति समुदायस्य प्रत्ययान्तत्वाभावात् प्रत्ययग्रहणे यस्मात् स विहितस्तदादेरेव ग्रहणात् । नचैवं सति ‘कृत्तद्धित-' इत्यत्र समासग्रहणं व्यर्थमिति वाच्यम्, पदघटित संघातस्य चेत् प्रातिपदिकसंज्ञा तर्हि समासस्यैवेति नियमार्थत्वात् । नचैवं सति प्रकृते बहुपटुरिति समुदायस्य पूर्वोत्पन्नसुब्विशिष्टस्य कथं प्रातिपदिकत्वम् श्रसमासत्वादिति वाच्यम्, यत्र संघाते पूर्वो भागः पदं तस्य चेत् प्रातिपदिकसंज्ञा तर्हि समासस्यैवेति नियमशरीराभ्युपगमाद् इति प्रागुक्तं न विस्मर्तव्यम् । नच 'समर्थानाम्' इत्यत्र वाग्रहणादेव सिद्धे विभाषाग्रहणं व्यर्थमिति वाच्यम्, बहुजभावपक्षे पूर्वसूत्रविहितकल्पबाद्यर्थत्वात् । अन्यथा महाविभाषया ‘अपवादेन मुक्ते उत्सर्गस्य न प्रवृत्तिः' इति सिद्धान्ताद् बहुकल्पमित्यादावपि बोध्यम् । विभाषा सुपः । सूत्रे 'सुपः' इति षष्ठयन्तम् । ‘षष्ठ्यतसर्थप्रत्ययेन' इत्युक्तेः । सुबन्तादिति । एतच्च पञ्चम्यन्तमुक्तमेव । पुरस्ताच्छब्दपर्यायस्य प्रागितिशब्दस्य वृत्तौ प्रयुक्तत्वात् । प्रागित्यपकृष्यत इति तु मनोरमायां स्थितम् । न च सूत्रस्थपुरस्ताच्छब्दसमानार्थक प्राक्शब्दयोगेऽपि ' षष्ठ्यतसर्थ -' इति षष्ठी स्यादिति वाच्यम् । 'अन्यारात् -' इति सूत्रेऽञ्चूत्तरपदस्य दिक्शब्दत्वेऽपि ' षष्ठ्यतसर्थप्रत्ययेन' इत्येतद्बाधनार्थं पृथग्ग्रहणमिति सिद्धान्तयित्वा प्राक् प्रत्यग्वा ग्रामादित्युदाहृतत्वात् । काशिकायां तु वृत्तावपि पुरस्ताच्छब्दः प्रयुक्तः, सुबन्तादिति च प्रयुक्तम्, तदसमञ्जसमिति मत्वा हरदत्तेन कथंचित् समर्थितम् । ल्यब्लोप एषा पञ्चमी । एवंभूतं प्रकृतित्वेनाश्रित्येत्यर्थ इति । प्रागेवेति । सौत्रस्तुशब्दोऽवधारणे वर्तत इति भावः । तेन च बहुजेव विकल्प्यते, न तु पूर्वत्वम् । तुशब्दाभावे तु प्राक्त्वं

Loading...

Page Navigation
1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716