Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 601
________________ ५६८ ] सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीयपुरस्तात् । अधः, अधस्तात् । अवः । १९७७ विभाषाऽवरस्य । (५-३-४१) अवरस्यास्तातौ परेऽव स्याद्वा । अवस्तात् , अवरस्तात् । एवं देशे काले च । 'दिशि रूढेभ्यः' किम्-ऐन्द्यां वसति । 'सप्तम्याद्यन्तेभ्यः' किम्-पूर्व ग्रामं गतः । 'दिगादिवृत्तिभ्यः' किम्-पूर्वस्मिन्गुरौ वसति । 'श्रस्ताति च' (सू १९७६) इति ज्ञापकादसिरस्तातिं न बाधते। १६७८ दक्षिणोत्तराभ्यामतसुच् । (५-३-२८) अस्तातेरपवादः । दक्षिणतः, उत्तरतः। १९७६ विभाषा परावराभ्याम् । तदाह अस्ताताविति । यद्यपि सूत्रक्रमे 'पूर्वाधर-' इति 'अस्ताति च' इति च 'संख्याया विधार्थ-' इत्यतः प्राक् पठितम् । तथापि अस्तातौ पुराधादेशविधानाय 'अस्ताति च' इति सूत्रमुपन्यसनीयम् । तत्रानुवृत्तिप्रदर्शनाय 'पूर्वाधर-' इत्यपि सूत्रमिहैवोपन्यस्तम् । पुर इति । पूर्वाशब्दाद् असिप्रत्ययः प्रकृतेः पुर् आदेशः । पुरस्तादिति । पूर्वाशब्दाद् अस्तातिप्रत्ययः प्रकृतेः पुर् आदेशः। अधः, अधस्तादिति । अधरशब्दाद् असिप्रत्यये अस्तातिप्रत्यये च प्रकृतेः अध् आदेशे रूपम् । अव इति । अवरशब्दाद् असिप्रत्यये प्रकृतेः अव् दिशे रूपम् । विभाषाऽवरस्य । 'अस्ताति च' इति पूर्वसूत्राद् 'अस्ताति' इत्यनुवर्तते । तदाह अवरस्येति । एवमिति । पूर्वस्मिन् पूर्वस्मात् पूर्वो वा देशः, कालो वा पुरः पुरस्तादित्यादि । पूर्वस्मिन्गुराविति । पूर्वकालिकाध्यापनकर्तरीत्यर्थः । ननु 'दिक्छब्दभ्यः' इति सामान्यविहितस्य परादिशब्देषु सावकाशस्य अस्तातेः पूर्वाधरावरशब्देषु असिना विशेषविहितेन बाधः स्यादित्यत आह अस्ताति चेतीत्यादि । दक्षिणोत्तराभ्याम् । दिग्देशकालवृत्तिभ्यामिति शेषः। दक्षिणतः, उत्तरत इति। नच तसुजेव प्रत्ययोऽस्तु । दिग्वर्तित्वे तु 'सर्वनानो वृत्तिमात्रे-' इति पुंवत्वेनैव दक्षिणत इत्यादि सिद्धमिति वाच्यम् , स्पष्टार्थत्वात् । अत एव भाष्ये अकारः दिग्देशकालेष्विति । यथासंख्यमत्र नेष्यते अस्वरितत्वात् । पुरः पुरस्तादिति । कथं तर्हि 'पश्यामि तामित इतः पुरतश्च पश्चात्' इति भवभूतिः, 'स्यात्पुरः पुरतोऽप्रतः' इत्यमरः, 'पुरतः प्रथमे चाने' इति विश्वश्च । समानकालीनं पूर्वकालीनमित्यादिवत्प्रामादिकमेवेति बहवः। केचित्तु 'दक्षिणोत्तराभ्यां तसुज्विधिनैवेष्टसिद्धौ अतसुच्' इत्यकारोच्चारणमन्यतोऽपि विधानार्थम् । तेन पुरत इति सिध्यति । 'पुर अग्रगमने' क्विपि पुर् । 'र्वोः' इति दीर्घस्तु न भवति भत्वात् । न च अतसुचश्चित्त्वेऽप्यकारोच्चारणं पक्षे आयुदात्तत्वार्थमिति वाच्यम् , बहूनां प्रयोगानुरोधेनान्यतो विधानार्थमिति कल्पनस्यैव न्याय्यत्वादित्याहुः । यथासंख्यत्वानाश्रयणात् पुरस्ताद्वसति पुरस्तादागतः पुरस्ताद्रमणीयम् । अधस्ताद्वसति, अधस्तादागत इत्यादि सिध्यति ।

Loading...

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716