Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 480
________________ ४३४ कातन्त्रव्याकरणम् ४९२/२२. आङो यमहनौ स्वाङ्गकर्मको च [दु० वृ०] आङः परौ यमहनौ अकर्मको स्वाङ्गकर्मकौ च रुचादी भवतः । आयच्छते, आहते । "धुटि हन्तेः सार्वधातुके" (३।४।४७) इति नलोपः । स्वाङ्गकर्मकौ चआयच्छते पादम्, आहते उरः । अन्यस्मिन् कर्मणि न भवति । आयच्छति रज्जुम्, आहन्ति वृषलम् । कथम् 'आयच्छति पादं देवदत्तस्य, आहन्ति शिरो विष्णुमित्रस्य' ? सत्यम्, नेह पारिभाषिकम् ‘अद्रवं मूर्तिमत्' इत्यादि स्वाङ्गम्, अपि तु स्वस्य आत्मनोऽङ्गम् । अतः परस्याने कर्मणि न भवति, तत् पुनर्व्याख्यानादिति ।।४९२।२२। [दु० टी०] आ | आङो यमहनौ स्वाङ्गकर्मको चेति | आयच्छते, आहते । आयच्छते पादम्, आहते उरः । अन्यस्मिन् कर्मणि-आयच्छति रज्जुम्, आहन्ति वृषलम् । स्वाङ्गग्रहणं किम् ? छात्रो मित्रस्य पाणिम् आहन्ति । नात्र पारिभाषिकः स्वाङ्गशब्द: ‘अद्रवं मूर्तिमत् स्वाङ्गम्' इति ।।४९२।२२। [वि० प०] आङो यम० | आङ: परौ यमहनावकर्मको स्वाङ्गकर्मकौ च रुचादी भवतः इत्यर्थः । आयच्छते, आहते । "धुटि हन्तेः सार्वधातुके" (३।४।४७) इति नलोपः। स्वाङ्गकर्मकौ च - आयच्छते पादम्, आहते उरः । अन्यस्मिन् कर्मणि न भवति । आयच्छति रज्जुम्, आहन्ति वृषलम् । कथम् आयच्छति पादं देवदत्तस्य, आहन्ति शिरो देवदत्तस्येति ? सत्यम् । नेदं पारिभाषिकम् 'अद्रवं मूर्तिमद्' इत्यादि स्वाङ्गम् , अपि तु स्वस्य आत्मनोऽङ्गं स्वाङ्गम् । अतः परस्याने कर्मणि न भवतीति तत् पुनर्व्याख्यानादिति ।। ४९२।२२। [क० च०] आङः । वा न वर्तते कार्यिनिमित्तयोर्व्यतिक्रमनिर्देशात्, तयोर्वेत्यत्र वाग्रहणाद् वा । 'आयच्छते' इति दीर्धीभवतीत्यर्थः । आहते, आयातीत्यर्थः । व्याख्यानादिति । आचार्यपारम्पर्यादित्यर्थः । कथं भारवौ- 'गाण्डीवी कनकशिलानिभं भुजाभ्यामाजने विषमविलोचनस्य वक्षः' इत्यत्र पराङ्गकर्मण्यात्मनेपदमा ? सत्यम् । स्खलितमिति कुलचन्द्रः । आपेदे' इति भागवृत्तिकृत पठति । शरणदेवस्तु 'विषमविलोचनस्य भुजाभ्यां गाण्डीवी स्वं वक्ष आजघ्ने' इत्याह, तन्न, अर्थासङ्गतेः । ___ अपरे तु 'विषमविलोचनस्य' इत्यनादरे षष्ठी, विषमविलोचनमनादृत्य तत्समीपे वा भुजाभ्यां वक्ष आजघ्ने आस्फोटितवानित्यर्थः । इदमपि न चारुतरम्, न हि

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564