Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 509
________________ परिशिष्टम् - १ (आ) ४६३ परमात्मानम्' इत्यादौ कर्मत्वदर्शनादव्ययपदम् । एवं चेत्, शुक्लादिपदस्यापि सुतरां निरासः, प्रत्ययानां साध्यतादिवाचकत्वं विशिष्टस्यैव वृद्धव्यवहारादन्वयव्यतिरेकाच्चावगन्तव्यमिति परस्पराश्रयदोषोऽपि नाशङ्कनीयः । शब्दानां नित्यत्वान्नहि साध्यतायां प्रत्ययविधायकं किमपि वाक्यमस्ति । अमूर्तायाः क्रियायाः कथं पौर्वापर्यमित्याह - कथं पूर्वत्वेनेति । मूर्तद्रव्यगतं पौर्वापर्यं क्रियायामुपचर्यते इति कुलचन्द्रः। तन्न, अमूर्तानामपि पौर्वापर्यबाधकाभावात् । किञ्च क्रियामात्रे यदि पौर्वापर्यारोपस्तदा अग्रे श्वेतते' इत्यादौ विशिष्टं पूर्वपक्षयित्वा तदारोपेण समाधानाभिधानमसङ्गतं स्यात्, तस्मात् पूर्वापरीभूतं घटादावतिप्रसक्तमित्याशयैवायं ग्रन्योऽभिमतः । सम्बन्धोऽभिसम्बन्धः, प्रत्ययवाच्यसम्बन्ध इत्यर्थः । अक्रमस्येति यद्युत्पत्तिदशायामेव पूर्वापरकाले सम्बन्धोऽस्त्येव, तथापि पौर्वापर्याभिसन्धानस्यात्र पौर्वापर्यशब्दवाच्यत्वेनार्थपदानुक्तत्वात् । अक्रमपरं यथोक्तक्रमाभिधानसम्बन्धरहितपरं क्रमप्राप्तिः क्रमाभिसम्बन्ध एव, तेन पूर्वापरतया प्रत्ययवाचकीभूतावयवेत्यर्थः पर्यवस्यति । पूर्वापरेति। पूर्वमवयवविशेषणमिदानीं क्रियाविशेषणं पूर्वापरीभूते क्रिये अवयवौ यस्या इत्यर्थः। यद्यपि अधिश्रयणादयो नान्यावयवा न वा तत्ततक्रियातिरिक्तोऽन्यो धर्मी पच्यादिवाच्यस्तथापि अतीतादिकालान्तःपतिताः कर्तृव्यापारा बुद्धिपरिकल्पिते समुदायेऽवयवत्वेनाध्यारोप्यन्ते, तेन क्रमिकानेकव्यापारात्मिका क्रियेति पर्यवस्यति । पचतीत्युक्ते पाकानुकूलक्रमिकानेकव्यापारवानिति प्रतीतेः, बहुक्रियाणामियं पूर्वापरीभूता निरवयवा साध्यमानावस्था भूतभविष्यद्वर्तमानसदसदनेकावयवसमूहरूपा नेन्द्रियग्राह्येति मैत्रेयादिभिरुक्तम्, तत् स्वरूपकथनमात्रम् प्रायिकं लक्षणपरमिति भाव्यम् । अथ यदि अनेकावयवसमूहरूपा क्रिया तर्हि न प्रत्यक्षा, आशुविनाशिनां क्रमिकाणां मेलकाभावेन समुदायादुपलम्भाद् अतो नास्त्येवात्र प्रमाणमिति चेत्, न । योऽवयवो दृष्टः स स्मर्यते यश्च वर्तते स प्रत्यक्षेणैव गृह्यते इति मनसा समुदायोपलम्भात् क्वचित् प्रधानफलदर्शने तत्सामग्यस्यानुमानाच्च । सदकारणवन्नित्यम् इति प्रथमसूत्रे व्याख्यातमेव । अत्र बौद्धाः- यद् वासना विकल्पयन्ति तत् प्रवाहज्ञानेऽवभासते ज्ञेयमिति चोच्यते । तच्च बाह्येऽसदेवारोपिताकारं व्यवहारहेतुः, पदार्थभेदस्तु वास्तवो नास्त्येवेत्याहुः। ततः सत्तापि वासनाविकल्पतो नित्यानित्यक्रमिकाक्रमिकरूपैव भविष्यति, वासनाविकल्पोऽपि एतच्छब्दविशेषाधीनो वेति शक्यते । अथेति । यद्यपि सत्ताशब्देन नित्यस्वरूपैवोच्यते तथाप्यस्तिना सैवानित्याभिधीयते इत्यर्थः । जगद्विकल्पस्य प्रत्यक्षसिद्धत्वान्न वासनामात्रं तन्निदानं प्रागवगतस्यैव वासनातो लाभाद् अतः एकत्रानेकविरुद्धधर्मसमावेशो न वा शब्दभेदेनार्थभेद

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564