Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 519
________________ परिशिष्टम् -१ (आ) ४७३ भावः । यथेति । अन्यथा अडागमं बाधित्वा वृद्धिरेव स्यादिति भावः। कुलचन्द्रस्तु नियमार्थोऽयं पाठः, स एव धातुर्नान्य उपसर्ग इत्यर्थः । न च वाच्यम् आत्मनेपदार्थः पाठः रुचाद्याश्रयणादपि सिद्धिरेव स्यादित्याचष्टे । तदेति । यद्यपि आलपयतीत्यादिसमुदायस्य क्रियावाचित्वमेव नास्ति, तथाहि आज्ञापयतीत्यर्थे आलपयति, वल्पतीत्यर्थे वर्पति, वपतीत्यर्थे वफति, कर्षतीत्यर्थे किसति, तथाप्यवयवस्य क्रियावाचित्वमिति कृत्वा पूर्वपक्षो घटनीय इत्यर्थो न्यासः । युक्तं चैतत्, धातोरेव प्राकृतशास्त्रेण वैरूप्यस्य कृतत्वात् प्रत्यययुक्तस्य धातुविकारयुक्तस्य धातुत्वं केन वार्यताम्, न चेष्टापत्तिः साधुत्वापत्तेः, धातोः साधुत्वनियमाभावात् । किञ्च किसतीत्यत्र गुणः स्यादिति हृदयम् अनुवर्तते । एतच्च नैयासिकादिरीत्योक्तम् । वैयाकरणास्तु पदांशेऽपि शक्तिमाद्रियन्ते एव, तदा प्रशंसायां वन्तुः । प्रशस्तार्थवत्ता नास्तीत्यर्थः । अथवा अर्थः प्रयोजनं संज्ञारूपं प्रकृतत्वादसाधवोऽमी, तथा च साधुशब्दानुप्रसङ्गात् साधूनामेव सज्ञितावगमः इति प्रातिपदिकसूत्रे न्यासकृताऽप्युक्तम् । एवं च तस्यैव धातुसंज्ञायामसाधुतावारणार्थं प्रयत्नान्तरमनुचितमिति हृदि निधाय तत्समाधानमुपन्यस्यति । अपर इति । अस्मन्मते भावयतिग्रहणबलाद् योऽर्थ उक्तः सोऽपि तन्मते बृहत्सज्ञाबललभ्यः एवेति दर्शयति । तथेति । स्वमतमाह- एवमिति । यस्मादीदृशं सूत्रं भ्वादयो धातवः इति न कृतम्, तेनात्र नाव्याप्तिशङ्केति भावः । तर्हि गणपाठो व्यर्थ इत्यत आह - भ्वादीति । अनुबन्धप्रत्ययो गणाद् विवरणार्थः । गुणाश्रय इति पाटवादिगुणाश्रय इत्यर्थः । यद्यपि प्रकृत्यर्थस्य कर्मणि प्रत्ययः, न तु प्रकृत्यर्थे कर्मस्वरूपे, तथापि पाकादिशब्दात् कर्मणि त्यादयः स्युरित्यपि बोध्यम् । द्वितीयादिशब्दवत् प्रकृत्यर्थेऽपि स्युरिति वा सम्भाव्यते । ॥ इत्याख्यातमञ्जयां क्रियाभावो चातुरितिसूत्रीपटुसिंहकृतटीकायां विद्यासागरकृता पाख्या समाप्ता॥

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564