Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 518
________________ ४७२ कातन्त्रव्याकरणम् भवति । प्रकृतेऽपि सत्यमुख्यार्थान्वययोग्यत्वे झटिति तत्तदर्थस्यैव बोधात कुतस्तदवसरः, अन्यथा सर्वत्र प्रकृतित एव प्रत्ययार्थावगमः प्रत्ययस्तु द्योतक एवोपसर्गतुल्यत्वादिति किं न कल्प्यते, तस्मात् - धात्वर्थस्य विरुद्धार्थः प्रादिभ्यो यत्र लभ्यते । तत्रामी योतका ज्ञेया बुधैरन्यत्र वाचकाः॥इति संक्षेपः। दिवाकरादेरपि मतमेतत् । अस्तु वा सर्वत्रोपसर्गस्य द्योतकत्वमिति उदयनाचार्यमतम् । तथापि प्रकृते न दोष इत्याह - एवमिति । उक्तयुक्तार्थान्तरगतौ तावत् सुतरां न दोषः । द्योतकत्वेनार्थान्तरानवगतिपक्षेऽपि प्रतिष्ठते इत्यादिवदेव न दोष इत्यर्थः । न च समुदायस्य संज्ञा स्यात्, यावति क्रियावाचकत्वं पर्यवस्यति, तदवच्छेदेनैव संज्ञाविधानान्न च सोपसर्गसमुदायवाचकत्वं पर्यवसितम्, उपसर्गस्य निरर्थकत्वादिति दिक । ननु कथम् इङिकोर्धातुसंज्ञा, तथा ह्यनयोरवधिसहितयोरेवार्थवत्त्वं न केवलयोः । यस्तु गणेऽनयोरर्थनिर्देशः समुदायार्थमवयवेऽध्यारोप्य कृत इति प्रातिपदिकसंज्ञायां न्यासकृतोक्तम् । अथ अध्यारोपितार्थयोरप्यनयोर्गणपाठबलादेव धातुत्वमिति तेनैव सिद्धान्तितमिति चेत् तथापि समुदायस्य धातुसंज्ञा केन निवार्यते इत्याह – अधीते इति । तथापीति । शिष्टैरित्यादिकं पूर्वत्र व्यस्ते योज्यम्, अन्ते वा उभयत्र हेतुपरत्वात् । अर्थेति । अधेरर्थान्तरे क्लृप्तां शक्तिं कुण्ठयित्वा समुदाये शक्त्यन्तरकल्पना नासाधीयसी । न विशिष्टं च शक्तिमत्त्वावच्छेदकम्,गौरवात् । अतः केवलयोरेवार्थवत्त्वम्, उपसर्गापेक्षा तु साधुत्वार्था, तद्योग एव विशिष्टेस्तदनुशासनादित्यर्थः । तमुर्थस्यापि प्रतीतिः स्याद् इति चेत् कदाचिद् भवत्येव । यत्र तु न प्रतीयते तत्र द्योतकतामात्रम्, एकत्र दृष्टस्त्वन्यत्रापि इङिकोरिवार्थवत्त्वादित्याशयेन क्वचित्तदर्थानुभवं दर्शयति - तथा हीति । ज्ञानार्थविषयमिति ज्ञानस्य योऽर्थो विषयः स एव विषयो यस्येति विग्रहः । नन्विदं सार्वत्रिकम् , क्वचित् स्मरणादिमात्रप्रतीतिः । वस्तुतस्तु तयोरनर्थकत्वे प्रत्ययान्वयो न स्यात्, अधीत्येति च समासानुपपत्तिः । गणकारवाक्यस्यापि अमुख्यार्थकल्पना नोचितेतीन्द्व - - - - - - - - - - - देवादयः । अस्तु वा अनर्थकयोरप्यनयोर्गणपाठबलादेव धातुत्वम्, तथापि न समुदायस्य संज्ञाप्रसङ्ग इत्याशयेनाह - किञ्चेति । न च इङिको: क्रियाभावत्वानभ्युपगमेऽधेस्तद्योगाभावात् कथमुपसर्गतेति वाच्यम्, द्योतकवत् सार्थकावयवस्यापि धातूनामर्थवत्त्वसहायभावमात्रेणोपसर्गत्वाविरोधात् । यद् वा प्रतिष्ठते' इत्यादावुपसर्गस्य द्योतकत्वे सोपसर्गसमुदायस्य न कथं धातुसंज्ञा इत्याशङ्क्यैवायं ग्रन्थो योज्यः । तस्मादिति न चात्मनेपदार्थः पाठः, नामधातोरुभयपदस्यावश्यकत्वे शुद्धधातो: केवलात्मनेपदित्वस्वीकारेऽपि प्रयोजनाभावात् । अधिकं 'कर्तुरायिः' इत्यत्र वक्ष्यते । सर्वोद्दिष्टमिदं ज्ञापकम्, अनर्थकभागस्य धातुभागस्य च यः समुदायः स धातुरिति

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564