________________
४७२
कातन्त्रव्याकरणम्
भवति । प्रकृतेऽपि सत्यमुख्यार्थान्वययोग्यत्वे झटिति तत्तदर्थस्यैव बोधात कुतस्तदवसरः, अन्यथा सर्वत्र प्रकृतित एव प्रत्ययार्थावगमः प्रत्ययस्तु द्योतक एवोपसर्गतुल्यत्वादिति किं न कल्प्यते, तस्मात् -
धात्वर्थस्य विरुद्धार्थः प्रादिभ्यो यत्र लभ्यते ।
तत्रामी योतका ज्ञेया बुधैरन्यत्र वाचकाः॥इति संक्षेपः। दिवाकरादेरपि मतमेतत् । अस्तु वा सर्वत्रोपसर्गस्य द्योतकत्वमिति उदयनाचार्यमतम् । तथापि प्रकृते न दोष इत्याह - एवमिति । उक्तयुक्तार्थान्तरगतौ तावत् सुतरां न दोषः । द्योतकत्वेनार्थान्तरानवगतिपक्षेऽपि प्रतिष्ठते इत्यादिवदेव न दोष इत्यर्थः । न च समुदायस्य संज्ञा स्यात्, यावति क्रियावाचकत्वं पर्यवस्यति, तदवच्छेदेनैव संज्ञाविधानान्न च सोपसर्गसमुदायवाचकत्वं पर्यवसितम्, उपसर्गस्य निरर्थकत्वादिति दिक । ननु कथम् इङिकोर्धातुसंज्ञा, तथा ह्यनयोरवधिसहितयोरेवार्थवत्त्वं न केवलयोः । यस्तु गणेऽनयोरर्थनिर्देशः समुदायार्थमवयवेऽध्यारोप्य कृत इति प्रातिपदिकसंज्ञायां न्यासकृतोक्तम् । अथ अध्यारोपितार्थयोरप्यनयोर्गणपाठबलादेव धातुत्वमिति तेनैव सिद्धान्तितमिति चेत् तथापि समुदायस्य धातुसंज्ञा केन निवार्यते इत्याह – अधीते इति । तथापीति । शिष्टैरित्यादिकं पूर्वत्र व्यस्ते योज्यम्, अन्ते वा उभयत्र हेतुपरत्वात् । अर्थेति । अधेरर्थान्तरे क्लृप्तां शक्तिं कुण्ठयित्वा समुदाये शक्त्यन्तरकल्पना नासाधीयसी । न विशिष्टं च शक्तिमत्त्वावच्छेदकम्,गौरवात् । अतः केवलयोरेवार्थवत्त्वम्, उपसर्गापेक्षा तु साधुत्वार्था, तद्योग एव विशिष्टेस्तदनुशासनादित्यर्थः । तमुर्थस्यापि प्रतीतिः स्याद् इति चेत् कदाचिद् भवत्येव । यत्र तु न प्रतीयते तत्र द्योतकतामात्रम्, एकत्र दृष्टस्त्वन्यत्रापि इङिकोरिवार्थवत्त्वादित्याशयेन क्वचित्तदर्थानुभवं दर्शयति - तथा हीति ।
ज्ञानार्थविषयमिति ज्ञानस्य योऽर्थो विषयः स एव विषयो यस्येति विग्रहः । नन्विदं सार्वत्रिकम् , क्वचित् स्मरणादिमात्रप्रतीतिः । वस्तुतस्तु तयोरनर्थकत्वे प्रत्ययान्वयो न स्यात्, अधीत्येति च समासानुपपत्तिः । गणकारवाक्यस्यापि अमुख्यार्थकल्पना नोचितेतीन्द्व - - - - - - - - - - - देवादयः । अस्तु वा अनर्थकयोरप्यनयोर्गणपाठबलादेव धातुत्वम्, तथापि न समुदायस्य संज्ञाप्रसङ्ग इत्याशयेनाह - किञ्चेति । न च इङिको: क्रियाभावत्वानभ्युपगमेऽधेस्तद्योगाभावात् कथमुपसर्गतेति वाच्यम्, द्योतकवत् सार्थकावयवस्यापि धातूनामर्थवत्त्वसहायभावमात्रेणोपसर्गत्वाविरोधात् । यद् वा प्रतिष्ठते' इत्यादावुपसर्गस्य द्योतकत्वे सोपसर्गसमुदायस्य न कथं धातुसंज्ञा इत्याशङ्क्यैवायं ग्रन्थो योज्यः । तस्मादिति न चात्मनेपदार्थः पाठः, नामधातोरुभयपदस्यावश्यकत्वे शुद्धधातो: केवलात्मनेपदित्वस्वीकारेऽपि प्रयोजनाभावात् । अधिकं 'कर्तुरायिः' इत्यत्र वक्ष्यते । सर्वोद्दिष्टमिदं ज्ञापकम्, अनर्थकभागस्य धातुभागस्य च यः समुदायः स धातुरिति