________________
परिशिष्टम् - १ (आ)
धातुसंज्ञा तदा समुदायस्य कथं न स्यादित्याशङ्क्याह - प्रपचतीति । उपसर्गस्य धातोश्च प्रत्येकमर्थवत्त्वात् ‘मृद्वपाक्षीत्' इतिवदिहापि विशिष्टार्थप्रत्यायकस्य समुदायस्य पूर्वोक्तयुक्त्यैव निरासार्थ इति भावः ।
इत्यत आह
ननु यत्रोपसर्गसन्निधावपि धातोरन्यत्र परिक्लृप्तोऽर्थः प्रतीयते तत्राधिकस्य वाचको भवतूपसर्गः । यत्र तु 'प्रतिष्ठते' इत्यादौ धातोर्न क्लृप्तार्थावगतिः, किन्त्वर्थान्तरमात्रं तत्रोपसर्गसमुदायस्यैव गत्यादौ शक्तिर्युक्तेति कथमेकदेशस्य निरर्थकस्य धातुसंज्ञेत्याशङ्क्याह – प्रतिष्ठते इति । प्रेण विना गतावदृष्टोऽपि तिष्ठतिर्गतिनिवृत्तौ क्रियायां दृष्ट इति क्रियाभावत्वेन दृष्टत्वात् स एव गत्यर्थः, गणे च पठितत्वात् कथं तिष्ठतिर्गत्यर्थः स्यादित्याह – अनेकेति । नन्विदं हेत्वन्तरमिति कुलचन्द्र लापोऽयुक्तः । आदिकर्मादिप्रकर्मादिभेदेनोपसर्गाणामनेकार्थदर्शनात् । नन्वेकस्यैव तिष्ठतेर्विरुद्धोभयार्थता कथं घटताम् विरुद्धेति । ननु प्रपचतीत्यादौ प्रशब्दः क्रियावाची दृष्ट एव, तथा च तिष्ठतौ वा प्रशब्दे वा शक्तिरित्यत्र विनियमकाभावात् समुदाये शक्तिरेव न्याय्येत्यत आह – आदीति । प्रशब्दस्य विशेष्यार्थाभिधायित्वं न दृष्टं तिष्ठतेस्तु तद् दृष्टमिति तत्रैव शक्तिरिति भावः । यदि च दर्शनमात्रमकिञ्चित्करम् अन्वयव्यतिरेकाभ्यां प्रशब्दस्यैव गतौ शक्तिरिति वक्तुं युज्यते । अत एव सर्वत्रोपसर्गस्य वाचकत्वमिति कन्दलीकारादिभिरुक्तम्, तथापि तिष्ठतेर्वानर्थकं प्रत्यर्थं नियोगे गतौ न स्यात्, प्रकृत्यर्थान्वितस्वार्थबोधकत्वेनैव प्रत्ययानां व्युत्पत्तेर्नित्यतैव तात्पर्यम् । न चैवं 'प्रपचति' इत्यत्राप्युपसर्गार्थ विशिष्टे पाके प्रत्ययार्थान्वयो न स्यादिति वाच्यम्, विशिष्टस्यानतिरिक्तत्वेन प्रकृत्यर्थत्वाक्षतेः । अन्यथा ओदनं पचतीतिवदत्रापि ओदनकर्मके पाके आख्यातार्थान्वयो न स्यात् तर्हि प्रशब्दोच्चारणं किमर्थमित्यत आह- तस्या इति । गतेरेकव्यवच्छेदके द्योतक इत्यर्थः । तत्सन्निधावेव धातोर्गत्यर्थाभिधायितया शक्तिपरिचायकत्वमेव द्योतकत्वमिति वाच्यम् । न चैवमत्र दृष्टत्वात् प्रपचतीत्यादावपि द्योतकतैव युक्तेति वाच्यम्, किञ्चिदर्थद्योतकत्वदर्शनेन सर्वत्र द्योतकत्वकल्पने मानाभावात् । प्रगतो नायकः प्रणायकः, प्रपचतीत्यादौ वाचकत्वस्यापि दर्शनाच्च ।
-
४७१
-
न च शब्दस्य सामान्यतः प्रकर्षादौ शक्तिकल्पने प्रतिष्ठते इत्यादावपि क्वचित् प्रकृष्टस्थितद्योतकः स्यात्, अतो यदि पचादिपूर्वकप्रशब्दत्वेन प्रकर्षादौ शक्तिस्तदा प्रोत्तरपचादित्वेनैव प्रकर्षशक्तिरस्तु धातोः स्वार्थकत्वस्य प्रत्ययार्थान्वयार्थकबोधेनावश्यकत्वादिति वाच्यम्, प्रशब्दादुत्तरस्यैव तिष्ठतेः स्थितिबोधकत्वेन प्रकृष्टस्थितिबोधाभावात् तस्मादुपसर्गस्य धात्वपेक्षाया न त्वस्वार्थाभिधानार्थत्वम्, किन्तु साधुत्वार्थमेव । यत्तु प्रपचतीत्यत्र प्रकृष्टपचनस्य प्रतिष्ठते इत्यत्र गतेर्लक्षणाया धातुत एव प्रतीतिरिति गङ्गेशेनोक्तम्, तत् तुच्छमेव । लक्षणा हि मुख्यार्थान्न प्रपचेत्यादिप्रबन्धने सापेक्षा