________________
४७०
कातन्त्रव्याकरणम्
संज्ञार्थमेव नियममग्रे स्वयं वक्ष्यति । पच्यते पाको मृद्वपाक्षीदित्यत्र पुत्रीयतीत्यादौ प्रत्ययेन नाम्ना च साध्यतावाचकप्रत्ययशून्येनाभिधीयमानमेवार्थं समुदायोऽभिधत्ते इति तस्य व्यावृत्तिः । न चैवं साध्यतादिवाचकप्रत्ययशून्यशुक्लादिशब्दवाच्याभिधायकस्य श्वितादेः कथं धातुसंज्ञेति वाच्यम्, यस्य धातुसंज्ञा तेन प्रतिपादनदशायां साध्यतादिवाचकप्रत्ययरहितशब्दाभिधीयमानत्वाभावात् तेन यदुत्तरः प्रत्ययः साध्यतां क्रमिकतां च नाभिधत्ते, तदनपेक्षया क्रियाभावस्तदभिधीयमानानभिधायकत्वे सति क्रियाभिधायको वा धातुरिति फलितार्थः।
अत एव ऋते शुक्लप्रभृतीनामपि धातुसंज्ञाप्रसङ्गो निरस्तः । अथ भावयतिग्रहणबललभ्योऽयमर्थग्रहणबलेनापि लभ्यते किं भावयतिनेति समाशङ्क्याह – यद्येवमिति । अन्यत्रापीति । अर्थग्रहणं कदाचित् क्रियार्थस्यार्थतः प्रवृत्तावपि याप्रभृतेर्धातुसंज्ञार्थमिति कुतो न शक्यते इति भावः । अथाम्नायविरुद्धो ज्ञापयितुमयोग्यः। अन्यथा भावयतिग्रहणेऽप्यनिस्तारादित्याह - प्रतिपत्तेश्चेति । यदि च सर्वत्र तादृशप्रत्ययविहितत्वं विवक्षितं तदा विकल्पार्थस्य वाशब्दस्य [शब्दस्य वा सत्तेत्यत्र सत्तावृत्तिवाशब्दस्य] वितर्कार्थस्य नुशब्दस्य च धातुसंज्ञा स्यात् । तेषां सर्वत्र तादृशप्रत्ययविहितत्वाभावेन तत्र हि शब्दानपेक्षया क्रियाभावत्वाभावादिति चोद्यार्थः । 'शक्तिभेदेन शब्दभेदः' इति दर्शनमवलम्ब्य समाधत्ते - अन्य इति । वितर्काद्यर्थो नुशब्दादिः सर्वथैव सादृशप्रत्ययरहितः, न तु स्तुत्यर्थ इत्याशयः । यद् वा यक्रियावाचकः संज्ञित्वेनाभिमतस्तक्रियां प्रति सर्वत्र साध्यतावाचकप्रत्ययरहितः, यतस्तदनपेक्षमेव विवक्षितम् । नुशब्दादिस्तु स्तुत्यादिकेऽर्थे न तादृशप्रत्ययरहित इति तदनपेक्षा भवति, वितर्कादौ तु तादृशप्रत्ययरहितत्वान्न तदपेक्षया तक्रियाभिधायित्वं तस्य स्वस्य स्वानपेक्षत्वाभावाद् अतो न तदभिधाने धातुसंज्ञेत्याशयेनेदं समाधानम् । अथैवमपि या प्राप्तिरस्ति इत्यादौ याशब्दस्य सर्वनाम्नोऽपि प्राप्तिवचनत्वाद् धातुत्वापत्तिः । तस्मिन्नर्थे तस्य कदाचित् साध्यताभिधायि प्रत्यययोगित्वादिति चेत्, न । येन रूपेण यस्य यक्रियाभिधायित्वं तेन रूपेण तत्र साध्यताभिधायी यस्तदुत्तरप्रत्ययस्तत्र हि तदनपेक्षित्वं विवक्षितम् । याशब्दस्य येन रूपेण तादृशप्रत्यययोगिता न तेन रूपेण सर्वनामतेति सर्वनामत्वरूपेण तादृशप्रत्ययरहितानपेक्षत्वम्, तस्य न सम्भवतीत्यदोषः।।
ननु प्रादीनामन्यत्र शक्त्यकल्पनात् प्रपचतीत्यादौ धातूपसर्गसमुदायस्यैव विशिष्टेऽर्थे शक्तिरिति समुदायस्यैव धातुसंज्ञा स्यान्न त्वेकदेशस्य निरर्थकत्वात् प्रशब्दो द्योतक एव, धातुस्तु विशिष्टार्थाभिधायक इत्युदयनाचार्यादिमते तु साध्यतादिवाचकप्रत्ययशून्योपतर्गापेक्षा अर्थप्रत्यायकत्वात् पुत्रीयादिवदिहापि नास्य सूत्रस्य विषय ः स्यात् । यदि च तादृशवाचकान्तरापेक्षायामेव न दोषः । प्रशब्दस्तु निरर्थक एवेति तदपेक्षयार्थप्रत्यायकस्यापि