________________
परिशिष्टम् - १ (आ)
एव सिद्धतापरतया लक्षणया उपपादनीयः । व्यतिरेकित्वादिति अन्वयव्यतिरेकव्यभिचारादित्यर्थः । तमेव दर्शयति - तथा हीति । पत्रादेः सिद्धतायामन्वयव्यतिरेकौ दर्शयित्वा साध्यतायामात्मनेपदस्य तौ दर्शयति - असत्यपीति । आत्मनेपदेऽसति घञादिसत्त्वे पचौ सत्यपि साध्यता न प्रतीयते इत्यर्थः । कृदाख्यातवाच्ययोरर्थयोज्ञानभेदादेव भेद इति दर्शयति - अन्य इति । कारकपदं कारकविभक्तिपदम् तेन 'शोभनं पचति' इत्यादौ कर्मत्वस्वीकारेऽपि न दोषः । लिङ्गादिमान् अत्र च शब्दभाव एव नियामकः । यथेति क्रियाभावशब्दौ धर्मवतीमेव क्रियामाहतुः । अन्यस्तु तदभिधायी नास्ति, अत एव धर्मवत एव क्रियात्वमिति । धर्मातिरेके न तत्क्षतिरिति
भावः ।
४६९
अभावादिति पूर्वाचार्यप्रसिद्धत्वादित्यर्थः । नन्वशुद्धक्रियानिष्ठत्वं न क्रियामात्रप्रतिपादकत्वम् असिद्धेः सर्वेषां प्रवृत्तिनिमित्तवाचकत्वात् 'पच्यते पाकः ' इत्यत्र भावप्रत्यये क्रियामात्रवाचकत्वाक्षतेः : साध्यताया भावनादिरूपायाः क्रियात्वाव्यभिचारात् । नापि सिद्धतासाध्यतानभिधायित्वं पुत्रीयादेरपि तथात्वात् । एवं च भावयतिना तत्र धातुत्वं न स्यादित्येतदर्थं “ते धातवः” (३ ।२।१६) इति वचनम् इत्यग्रिमग्रन्थस्यासङ्गतिः, तेन क्रियापदं क्रियानिष्ठधर्मरहितक्रियापरमिति कुलचन्द्रप्रलापोऽप्यपास्तः । नाप्यलाक्षणिकत्वं चिकीर्षादिं प्रति “ते धातवः " ( ३ । २ । १६ ) इति वचनं सुखार्थमिति ग्रन्थासङ्गतेः । उच्यते - यदुत्तरप्रत्ययेन साध्यत्वं क्रमिकत्वं चालोच्यते, तदनपेक्षक्रियावाचित्वमेवात्र शुद्धक्रियानिष्ठत्वम् | पच्यते इत्यादिः पुत्रीयतीत्यादिश्च न तथा प्रत्ययस्य नाम्नश्च सुखसमुदयान्तर्गतत्वेनापेक्षणाच्चिकीर्षादिस्तु धातुसंज्ञा सिद्धैव प्रकृतेश्चोत्तरं प्रत्ययेन साध्यत्वाद्यभिधानात् । कथं पुनरयमर्थो लभ्यते इति चेत्, प्रत्ययवाच्यसाध्यताक्रमिकताश्रयो हि क्रियेत्युक्तम्, तद्वाचकोऽपि यदुत्तरप्रत्ययेन साध्यताऽभिधीयते स एव प्रत्यासत्त्या वाचकः । अत्र च भावयति - ग्रहणबला क्रियावाचकान्यानपेक्षक्रियावाचकत्वलांभः, अन्यथा क्रियात्व इति विदध्यात् । न च प्रत्यासत्त्या साध्यतावाचिप्रत्यययोग्यस्य क्रियाभावस्यैव ग्रहणमिष्यताम्, किं पुत्रीयाद्यर्थं " ते धातवः " ( ३।२।१६) इत्यस्य स्वीकारेणेति वाच्यम् । ‘मृद्वपाक्षीत्' इत्यत्र मृदुपचिसमुदायस्यापि धातुत्वापत्तेः । तदुत्तरप्रत्ययेनापि विशिष्टक्रियासाध्यताभिधानात् ।
यद् वा भावयतिना क्रियामेव भावयतीति नियम उच्यते, अत्र च क्रियाभिन्नमात्रं न नियमव्यावृत्तं सर्वस्यैव प्रवृत्तिनिमित्ताभिधायित्वात्, किन्तु प्रागुक्तप्रत्यासत्त्या क्रियापदस्यात्र स्वसाध्यस्वक्रमिकत्ववाचकप्रत्ययसम्बन्धिशब्दप्रतिपाद्यत्वक्रियाविशेषपरत्वं
स्वसाध्यत्वक्रमिकत्ववाचकप्रत्ययसम्बन्धिशब्दवाच्यत्वमेव क्रियालक्षणमिति स्थिते तादृशीं क्रियामेव भावयति न तु साध्यतादिवाचकप्रत्ययरहितशब्दाभिधीयमानं भावयति, यतस्तस्य