________________
४६८
कातन्त्रव्याकरणम्
कानिचिदेव पदानि समर्थानि, न तु तत्समर्थकानि पदान्तराणीति न्यायात् । अथवा वैशेषिकमते कारकत्वाभावे तद्विवक्षामात्रेण कर्तृत्वम् । अड्कुरोत्पत्तेश्च क्रमिकत्वं कारणीभूतव्यणुकादिक्रमाध्यारोपेणैव प्रत्ययवाच्यमित्येव टीकायां दर्शितम् । गुरुमते तु क्रियाफलहेतुत्वमेव कारकत्वमित्युत्पत्तिफलहेतुत्वादकुरस्य कर्तृत्वम् अप्रत्यूहमेव । उत्पत्तिफलं च द्वितीयादिक्षणयोगस्तत्साक्षात् कालो वेत्यलं विस्तरेण । तथेति 'दुष वैकृत्ये (३१२८) । वैकृत्यं चावयवेषु क्रमेणैवावयविन्यपि उत्कृष्टापकृष्टानेकविकाराः क्रमिका एवेति भावः । एवमिति उत्पन्नाभावो बंसः, अवयवानां क्रमेण विभागे सति घटो नश्यतीति । अत्र नशेर्विभागक्रमारोप इत्यर्थः । प्रागिति उत्पत्तेः पूर्वं योऽभावः स प्रागभावः । कपाले घटो नास्तीत्यत्र नञो द्योतकत्वेन धातूनां प्रागभावाभिधाने जन्मवत् पौर्वापर्याध्यारोपात साध्यताध्यारोपवत् प्रयोग इति भावः । क्वचित्तु प्रत्ययस्य लक्षणयाऽभावप्रतियोगित्वमात्रबोध इति मन्तव्यम्।
अत्यन्तेति । त्रैकालिकाभावोऽत्यन्ताभावः । यथा 'आकाशे पुष्पं नास्ति' इत्यत्राप्यधिकरणे निषेध्यसम्बन्धमग्रतो बुद्ध्याऽध्यवस्यति पश्चात् तदभावबोध इति तार्किकसिद्धान्तात् सम्बन्धगतं क्रमिकत्वं साध्यत्वं चाभावेऽध्यारोप्य प्रत्ययेन क्वचित्तूच्यते इति भावः । इतरेति । गौरयमश्वो न भवतीत्यादौ भेदव्यवहारहेतुर्योऽभावस्तस्यापि वस्तुनस्तादात्यारोपस्य ग्राहकतया बुद्धिकृतसंस्पर्शस्य क्रमिकत्वं साध्यत्वं च कदाचिदारोपादेवेति भावः । अथवा समवायसम्बन्धादिरूप एवाभावो नातिरिक्त इति गुरुमते ग्रन्थो योजनीयः । एतेन चतुर्विधस्याप्यभावस्य क्रियात्वमुक्तम् । अत्रैव भर्तृहरिसंवादः- यावसिद्धमित्यादिना वृत्तौ दर्शितः । सिद्धं सत्तादि, असिद्धं गुणादि । साध्यत्वेन प्रतीयते प्रत्ययेन बोध्यते इत्यर्थः । आश्रितमुपचारादिना प्रत्ययबोधितं क्रमरूपं यस्येति विग्रहः । नन्चिति भावे प्रत्ययविधानार्थं धात्वपेक्षया प्रत्ययान्तस्यार्थभेदोऽस्ति । भावशब्दस्य क्रियापर्यायत्वादित्येवात्र शहाबीजम् अतस्तदपि निरस्यति नैवमिति । एतेन धातोरेव साध्यताप्यर्थ इति । "भावे" (४।५।३) इति सूत्रे रक्षितेन यदुक्तं तन्निराकृतम् इति "आत्मनेपदानि" (३।२।४०) इत्यत्र विवेचयिष्यामः । अन्वयव्यतिरेकात् सत्तोत्पादना भावना वा क्रमिकता वा आख्यातार्थ इति सर्वतान्त्रिकसिद्धान्तानुसारात् सैव साध्यतेत्यभिधीयते । न तु साध्यता कर्तृयोग इति कुलचन्द्रमतं युक्तम् , भावप्रत्ययस्य तदनभिधायकत्वात् । सिद्धता च सिद्धिरेव । पाक इत्युक्ते पचधात्वर्थस्य सिद्धिरिति प्रतीतेः । तथा च "कर्तरि कृत" (४।६।४६) इत्यत्र न्यासकृता यद्यपि भावे घञ् आत्मनेपदं च श्रूयते, तथापि शब्दशक्तिस्वाभाव्याद् भावधर्मसिद्धतासाध्यतापरं भावपदम् । अतो न स्वार्थिकत्वम्, यतो घञादीनां धात्वर्थस्य सिद्धतामेवाभिधातुं सामर्थ्यम् आख्यातस्य साध्यतामिति व्याख्यातम् । कथन्तर्हि 'पाकः सिद्धः' इति सहप्रयोग इति चेत् सिद्ध