________________
* रेशिष्टम् - १ (आ) सद्वादः साङ्ख्यमतं कारणं बीजादिकं कार्यम् अङ्कुरादिकं परिणमते अन्यथात्वं लभते विकरोतीति यावत् । तथा च बीजमङ्कुरो जायते इति वाक्यार्थः । ननु बीजं कर्तृ अङ्कुरस्योत्पत्तिरिति भिन्नविषयत्वं तदवस्थमेव, यदि च बीजाङ्कुरयोरभेदः, हन्त तर्हि कस्योत्पत्तिः, पूर्ववदेव बीजमात्रमुपलभ्यते इत्यत आह - जन्मार्थ इति । आविर्भावः कार्यभूतोऽङ्कुर एव जन्मार्थे जन्माश्रयः प्रागसत्त्वात् । तथा च तन्मते कार्यकारणयोर्भेदाभेदस्वीकारात् कारणरूपेण कर्तृत्वं कार्यरूपेण चोत्पत्तिरिति भावः । अत एव च्चिप्रत्ययोऽपीत्याह - प्रकृतिरिति । तथा जन्मनः क्रमिकत्वाभावात् कथं क्रियात्वमित्याशङ्का प्रागुक्तसकलपक्षे समाधत्ते-कार्येति ।कुलचन्द्रस्तु ये तु मन्यन्ते कारणे कार्यशक्तिरूपं कर्तशक्तिमतश्चोत्पत्तिः सदैव भेदश्च तयोर्नास्तीति,तन्मतेनाह - जन्मार्थ इति । जन्मार्थो जन्मकारणम्, आविर्भावः शक्तिमान्, नवा समुच्चये, वृद्धसाङ्ख्यः पुनराह - नासतः प्रादुर्भावः, अपि तु सतः, तदा को जन्मार्थ इति चेद् अप्रकाशस्य स्फुटीभवनमात्रम् अङ्कुरो हि बीजम् अन्यथाकुर्वन् जायते पत्रकाण्डनालादिभेदेन स्फुटीस्यादिति । अत उक्तं वृत्तौ अथवेति । अमुमेव पक्षमाश्रित्याह – कार्येति । व्याचष्टे उच्छूनलताग्रशिथिलावयवसंयोगः ।
ननु कारणस्योच्छूनलताद्यनेकक्रमिकावस्थानत्वेऽपि जन्मनः कथं क्रमिकत्वम् आद्यक्षणसम्बन्धादिरूपस्य तस्यैकत्वादित्याशङ्क्याह - न चेति । कारणगतो बीजगतः कारणव्यापारस्य कार्यार्थतया तक्रमोऽपि कार्यजन्मनाऽध्यवसीयते इति प्रत्ययवाच्यक्रमिकत्वरूपस्य नोक्तक्रियालक्षणस्य व्याप्तिरिति समाधत्ते कार्येति । यदा तु स्फुटीभावमात्रं जन्मार्थस्तदा जायते इत्यत्र पत्रादिभेदात् क्रमशः स्फुटीभवतीत्यर्थः । वस्तत एव क्रमिकत्वात् किमारोपेणेति भाव्यम् । वैशेषिके व्याकरणस्य सर्वपारिषदत्वाद् एकस्यापि बहुधा व्याख्यानं न पिष्टपेषणदोषमावहति । अदृष्टं धर्माधर्मों, तप्रबोधितारम्भे कार्यजनने शक्तिर्येषामिति विग्रहः । परमाणवस्त्वादिकारणं नित्यभूतास्त एव कर्तार इत्यर्थादायातम्, समवायिकारणम् अङ्करावयवो निमित्तं भूमिजलादिविकाररूपं कार्यद्रव्यं कार्यद्रव्यस्याङ्कुरस्य । एतदुक्तं भवति क्षित्युदकसहकारिणो बीजस्य नाशकादृष्टत्वादुपजातक्रियस्य विभागादवयविद्रव्यनाशे विभक्ताः परमाणवः पुनरारम्भकादृष्टादुपजायते क्रियाभिर्जनितमित्त्थं संयोगाद् ह्यणुकादि जायते ट्यणुकादितोऽपि चतुरणुकादि इत्यादिक्रमेणान्तेऽङ्कुरो जायते । तथा चाकुरपदं तदारम्भकपरमाणुपरम्, धातुस्तु जन्मार्थो मिलने व्यापारे वर्तते । परमाणवोऽङ्कुरोत्पत्त्यनुकूलक्रमिकव्यापारवन्त इत्यर्थः । एतेन परमाणव एव ट्यणुकादिद्वारा अङ्कुरेऽपि हेतुरिति कन्दलीकारमतेनोक्तम् ।
ये तु परमाणूनां ट्यणुकमात्रे हेतुत्वमाहुस्तन्मतेऽङ्कुरशब्दस्य तदवयवमात्रे लक्षणा, न चेद् एवम् अङ्कुरावयवो जायते इति प्रयोग : स्यात् । कस्मिंश्चिदन्वयबोधे