________________
कातन्त्रव्याकरणम्
प्रत्यक्षमस्तीति पक्षेऽपि ज्ञानाकार एव बाह्यरूपेण संविद्यते ज्ञानार्थयोरभेदानुभावात् । अत आरोप एव जन्मार्थ इत्याशयः । यद् वा पूर्वदृष्टोऽङ्कुरः कर्तेत्यादिकमपि सौभ्रास्तिकमतमेवोक्तम् । बाह्यस्य ज्ञानाकारभिन्नतया कथं बाह्यरूपतया जन्मेत्येव न चेत्यादिना शङ्कितम्, विकल्पितो बाह्यस्तथा तयोरेकताध्यवसाय एव जन्मार्थः, तेन बाह्यरूपतया जन्मेत्युक्तमिति सिद्धान्ताभिप्रायः । ननु बाह्यतया प्रत्यक्षे घटादौ कथम् अनन्तरीणज्ञानाकाराभेदरोप उपपद्यतां विशेषणदर्शनसत्त्वादित्यत आह - प्रत्यक्षेऽपीति । अत्राप्यनाद्यविद्यावशाज्ज्ञानाकारत्वेनैव बाह्यं संवेद्यते इत्यर्थः । यद्येवं ज्ञानार्थयोः सर्वथैवाभेद : स्वीक्रियताम्, किमभेदारोपकल्पनया पारमार्थिको हि भेदो बाह्यानपेक्षया कदा नीलपीताज्ञानाकारोत्पत्तिः स्यादित्याह - न बाह्यमिति । स्वलक्षणज्ञानं न बाह्यरूपमित्यर्थः । बाह्यापेक्षया तु कारणत्वादेवेत्याह - केवलमिति । भेदे दूषणमुद्धृत्याभेदं प्रत्याचष्टे । बाह्यस्वलक्षण इति बाह्यमेव स्वलक्षणं स्वरूपं यत्तु तादृशसंवेदनपक्षे ज्ञानस्याग्निरूपत्वस्वीकाराज्ज्ञानमात्रेण दाहोत्पत्तिः स्यादित्यर्थः ।।
कुलचन्द्रस्तु स्वलक्षणं व्यक्तिः, अथ बाह्यस्य ग्रहणे कथं 'नीलः, पीतः' इति ज्ञानभेद इत्याह - केवलमिति । अर्थोपलब्धौ दोषमाह - बाह्येति, अर्थज्ञानयोस्तादात्म्यादिति भावः । वैशेषिकमते तु न बहिर्जानाकारोऽस्ति अविज्ञानेन बहिरेव प्रवृत्तेः, तस्माद् अर्थाकार एव गृह्यते इति तदयुक्तम्, अर्थस्यातीन्द्रियतया तदाकारस्याप्रत्यक्षत्वादर्थाकारयोस्तादर्थ्यादिति व्याचष्टे । तच्चिन्त्यम्, ज्ञानार्थयोस्तादात्म्ये यथा बाह्यस्य ज्ञाने दाहस्तथा तदज्ञानेऽपि दाहप्रसङ्गादारोपस्य जन्मार्थत्वानुपपत्तिश्च । ननु यदि बाह्यमतिरिक्तम्, तदा ज्ञानस्य साकारत्वेऽपि किं प्रमाणम्, येन पृथग् ज्ञानाकारानुपलम्भादभेदाध्यवसायमङ्गीकुरुषे इत्याशब्याह - साकारं चेति । ननु स्वप्ने स्मृतौ च न ज्ञानाकारो भासते तयोः पूर्वानुभवजन्यया अनुभूत एवाकारस्तद्विषयः पूर्वानुभवश्च बाह्यगोचर एवेति शङ्कात इत्याह – बाह्येति । स त्विति । स्वप्नसम्बन्धीत्यर्थः । स्वप्नो हि तदानीन्तनाकारोऽनुभूयते, न च बाह्यस्तादृशाकारस्तदानीमस्तीति ज्ञानाकारस्यैव संवेदनमुच्यते इत्याह - तदा तस्येति । मध्यमकः पुनराह - केवलं ज्ञानम् आकारस्तु वासनाधीनो भ्रान्त इति । तत्राह – निराकारेति । तदा स्वप्नकाले वासनाया अभावाद् भ्रान्ते सत्यग्रहणपूर्वकत्वाद् बाधकं विना भ्रमत्वानौचित्याच्चेति शेषः । किञ्च यद्याकारो नास्ति तदा किं कृतो नीलज्ञानमिदं न पीतज्ञानमिति नियमः, विपर्ययस्यापि प्रसङ्गाज्ज्ञानार्थयो: सम्बन्धान्तराच्चेत्यभेदात् साकारेति, अपि समाधानान्तरसमुच्चयेऽवधारणे वा | प्रवाहज्ञानं वासनावशान्नीलाद्याकारणोत्पद्यमानं स्वमाकारमेवाध्यवस्यति नान्याकारमिति न विपर्ययमिति भावः ।