________________
परिशिष्टम्-१ (आ)
४६५
ननु सत्तायाः क्रियात्वस्थापनमनुचितम् । किं करोतीत्युक्तेऽस्तीति प्रतिवचनाभावात् तथा करोत्यर्थ एव क्रिया सर्वेषां धातूनां सामान्यविशेषभावेन करोतिसामानाधिकरण्यात् किं करोतीत्युक्ते पचतीति प्रतिवचनादिति रक्षितेनाप्युक्तमिति चेत्, न । भूधानोः सत्तायामिव क्रियामात्रवाचिनोऽपि कृञो भावनायाम् अनेकार्थप्रसिद्धतया किं करोतीत्यनेन भावविशेषप्रश्नेऽस्तीत्युत्तराभावात किं क्रियावतीति प्रश्ने तु क्वचिदस्तीत्यस्य प्रतिवचनं भवत्येव । अत एव वियोगवतीत्युक्ते न क्रियावतीत्यनुभूयते इति न तस्य क्रियात्वमित्यपि वादिनः प्रलापो निरस्तः । यतो वैशेषिकसिद्धस्पन्दनादिकक्रियावृत्त्यर्थमेव न गम्यते । धात्वर्थवत्त्वं तु अनुभवसिद्धमेव । वस्तुतस्तु कारककौमुयां सत्त्वसम्बन्धे - - - - - वदनेति - - - - । अत्रापि प्रत्ययस्य स्थानान्तरे कदाचित् साध्यताबोधकस्य सत्त्वाद् धातुत्वमित्याशयः । वस्तुतो गणपाठबलादुक्तम् इत्यत्रैव तात्पर्यम् ।।
ननु क्रियायाः सकर्तृकत्वनियमात् कर्तुः कारकविशेषत्वाज्जन्मनो नास्ति सकर्तृकतेति, कथं क्रियात्वमित्यत आह - तथाङ्कुर इति । अङ्कुरशब्दार्थः सामान्य जातिः, सा च पूर्ववदेवास्ति यद्विशिष्टोऽङ्कुरव्यक्तिभूतो जन्मार्थो जन्मान्वयः प्रागसत्त्वादित्येवोक्तम् । जन्म चेति । न परं त्वसतः कर्तृत्वं जन्म चेति चार्थः । न च वाच्यम् अन्य ः कर्ता अन्यश्चोत्पद्यते इति तयोरभेदात् । तथा च भट्टादिमते जातिव्यक्त्योर्भेदाभेदौ जातिरेव च शब्दार्थः। इत्थं प्राक् जाति: की व्यक्तिरूपतयोत्पद्यते इति वाक्यार्थः। व्यक्तिभिन्नैव जातिरिति पक्षेऽपि न दोषः । जन्मनो विशेषप्रकाशरूपत्वादित्याह- जायते इति । अकुरसामान्य व्यक्तिनिष्ठतया प्रकाशते इति वाक्यार्य इत्याशयः ।
यद् वा इदमपि भट्टादिमतेनैव व्याख्येयम्, विशेषेण व्यक्तिरूपेण प्रकाशते जातिरित्यर्थः । ननु बौद्धमते सामान्यं नास्ति कस्तर्हि शब्दार्थ: ? योगाचारमते जानाकार एव, तदुक्तम् – 'ज्ञानमेकं क्षणस्थायि बाह्यं किञ्चिन्न वियते' इति, न च ज्ञानस्यान्तर्गतत्वाद् बहिःप्रवृत्त्यनुपपत्तिर्ज्ञानमेव स्वमाकारं बहिरारोप्य प्रवर्तयतीति सिद्धान्तादिति चेत् तर्हि स एव कर्तेत्याह – यद् वेति । पूर्वं दृष्टः इन्द्रियजनितोऽङ्कुरो ज्ञानाकारः कर्तेत्यर्थः । ननु ज्ञानं कर्तृ तत्त्वाद् अविद्यापरिकल्पितस्तु बाह्योऽसन्नेवोत्पत्त्याश्रयः इति कथम् एकस्योत्पत्त्याश्रयत्वकर्तृत्वयोरन्वय इत्याशङ्क्याह - न चेति । एकत्वेति । यथा वेदान्तमते ब्रह्मैव घटादिप्रपञ्चरूपेण विवर्तते । तथा तन्मतेऽपि ज्ञानाकार एव बाह्यरूपेण विवर्तते इत्यदोषः । अतः सतोऽन्यथाभावरूपस्य विवर्तस्यैव जन्यर्थत्वात् । यद् वा आरोप एव जन्मार्थः तथा च ज्ञानाकारोऽङ्कुरो बाह्यत्वेनाध्यवसितो भवतीति वाक्यार्थः । यथोक्तमिति दृश्यो ज्ञानाकार ः पारमार्थिकः विकल्पितो वासनापरिकल्पितः । अत्र च भेदाभेदस्वीकार एवेति मन्तव्यम् ।
ननु सौत्रान्तिकाः ज्ञानाकारान्यथानुपपत्त्या पारमार्थिकमपि बाह्यं नीलादिकमङ्गीकुर्वते । तन्मते प्रथमारोपो जन्मार्थ इत्युपपद्यताम् इत्याह - प्रत्यक्षेऽपीति । बाह्य