________________
४६४
कातन्त्रव्याकरणम्
इत्याह - न हीति । किञ्चार्थ एव स्वज्ञानद्वारा शब्दस्य हेतुः, न शब्दोऽर्थस्य पूर्वमसत्त्वात् । तथा च कथं कार्येण कारणमन्यथा कर्तव्यम्, शब्दार्थाभेदपक्षस्तु विचारासह एवेत्याह - कार्यभूतश्चेति । किञ्च साध्यत्वमात्रं वा क्रियालक्षणम्, साध्यत्वक्रमिकवत्तया प्रत्ययवाच्यत्वं वा । आद्ये कटादावतिव्याप्तिः, अन्ते तु सत्तायामतिव्याप्तिरेव स्वरूपम् अत एवार्थशब्देनावेदनाच्छब्दाधीनो योऽर्थस्य विशेषः स एव शब्दवाच्य इति । अभ्युपगमे हि शब्दाभासोच्छेदप्रसङ्ग इत्याह - यदि चेति ।
न च भ्रमजनकत्वेनैव शब्दाभासत्वं ज्ञानस्य सत्यत्वनियमात्तथा चाविद्यमानस्याप्यर्थस्य शब्देनावेदने सत्यत्वनियमोऽपि भज्येतेत्याह- न चेति । ज्ञेयाकारो ज्ञानविषयः । एतच्च सर्वथा यथार्थत्वाङ्गीकर्तृप्रकारमतेनोक्तम् । शाब्दज्ञानं भ्रमोऽपि भवत्येवेति वैशेषिकादिरीत्या त्वसिद्धान्तः । न किञ्चिदिति तत्तच्छून्योऽसावभाव इति ।बौद्धमतेनेदम् । अत एव सर्वोपाख्याविरह इति पजी | उपाख्या प्रसिद्धिः, तच्छून्योऽप्रसिद्ध इत्यर्थः । वास्तविकपक्षे उपाख्या द्रव्याद्यष्टपदार्थलक्षणं तद्विरह एव लक्षणमसाधारणो धर्मो यस्येत्यर्थः । इत्थमपि तस्य न क्रियात्वसम्भव इत्याह न चेति । 'श्वेतते' इत्यादौ शङ्काबीजमाह - यथेति । यथा ह्येको घटस्तथा तन्निष्ठो रूपादिरप्येक एव, तत्र च कथं क्रमिकत्वान्वयः, न हि क्रमेणानेकरूपवान् घट इत्यपि शक्यते वक्तुमित्यर्थः । यद्यपि पाकादिना क्रमिकानेकरूपस्य संयोगस्य चैकत्र सम्भव एव, तथापि यत्रैकमात्रसम्भवस्तत्र क्रमिकत्वानन्वयात् क्रियालक्षणा व्याप्तिरिति शङ्का ।
___ व्याकरण इति । 'अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि' इत्येव दर्शनं व्याकरणं सिद्धम्, अतोऽसतोऽपिशब्देनाभिधानादर्थोक्तलक्षणा व्याप्तिरिति फलितार्थः । उदयो यस्येति साधनायत्तत्वेनोदयो ज्ञानमित्यर्थः । यद् वा साधनायत्तोत्पत्तिकमित्यभिधीयते इति शेषः । बुद्ध्यवस्थेति । क्रियादिव्यवहारस्य कारणीभूता या बुद्ध्यवस्था बुद्धिविशेषः । अत एव हेतोः सिद्धमपि क्रियात्वेनावभासते इति वृत्त्यर्थः। सत्तायां साध्यतारोपबीजमाह - सत्तावत इति । अत्र क्रियायां प्रयोजनीभूतपचनादिक्रियायां सत्ताश्रयस्य पूर्वापरीभूतव्यापारोपलम्भात् सत्तायामपि क्रमिकत्वादिकल्पनेति भावः । सत्तावतोऽप्यवश्यम् अर्थक्रियेति कुतो नियमः । येन तद्दर्शनात् तद्धर्मारोप इत्यत आह - अर्थक्रियेति । वेदान्तिनस्तु मते ब्रह्मस्वरूपैव सत्ता अविद्यावशात् पाकत्वादिरूपेण कल्प्यमानभेदा पचादिधातुनाभिधीयत इति । सुतरां तत्र क्रमिकत्वाद्यारोप इत्याह - तथा चेति । एतच्च सम्बन्धिभेदात् ‘सत्तैवेति' इत्यादिश्लोकप्रस्तावे लिङ्गसूत्रे प्रपञ्चितमेव । वैशेषिकमते तु सत्तायाः सर्वधातुवाच्यत्वं नास्त्येव, केवलं भूधातो: क्रियामात्रेऽपि वृत्तिरित्याशयेन 'सर्वे धातवो भवः' इति किंवदन्ती । अत एव भावः क्रियेति पर्यायः । भावो भवितारमन्तरेण न सम्भवतीति प्रयोग : प्रामाणिकानाम् । यत्तु भवतीत्युक्ते क्रियामात्रं प्रतीयते तत् प्रसिद्धतया सत्तायामेव पुनः प्रदुह्यमानत्वादिति बोध्यम् ।