________________
परिशिष्टम् -१ (आ)
४७३
भावः । यथेति । अन्यथा अडागमं बाधित्वा वृद्धिरेव स्यादिति भावः। कुलचन्द्रस्तु नियमार्थोऽयं पाठः, स एव धातुर्नान्य उपसर्ग इत्यर्थः । न च वाच्यम् आत्मनेपदार्थः पाठः रुचाद्याश्रयणादपि सिद्धिरेव स्यादित्याचष्टे । तदेति । यद्यपि आलपयतीत्यादिसमुदायस्य क्रियावाचित्वमेव नास्ति, तथाहि आज्ञापयतीत्यर्थे आलपयति, वल्पतीत्यर्थे वर्पति, वपतीत्यर्थे वफति, कर्षतीत्यर्थे किसति, तथाप्यवयवस्य क्रियावाचित्वमिति कृत्वा पूर्वपक्षो घटनीय इत्यर्थो न्यासः । युक्तं चैतत्, धातोरेव प्राकृतशास्त्रेण वैरूप्यस्य कृतत्वात् प्रत्यययुक्तस्य धातुविकारयुक्तस्य धातुत्वं केन वार्यताम्, न चेष्टापत्तिः साधुत्वापत्तेः, धातोः साधुत्वनियमाभावात् । किञ्च किसतीत्यत्र गुणः स्यादिति हृदयम् अनुवर्तते । एतच्च नैयासिकादिरीत्योक्तम् ।
वैयाकरणास्तु पदांशेऽपि शक्तिमाद्रियन्ते एव, तदा प्रशंसायां वन्तुः । प्रशस्तार्थवत्ता नास्तीत्यर्थः । अथवा अर्थः प्रयोजनं संज्ञारूपं प्रकृतत्वादसाधवोऽमी, तथा च साधुशब्दानुप्रसङ्गात् साधूनामेव सज्ञितावगमः इति प्रातिपदिकसूत्रे न्यासकृताऽप्युक्तम् । एवं च तस्यैव धातुसंज्ञायामसाधुतावारणार्थं प्रयत्नान्तरमनुचितमिति हृदि निधाय तत्समाधानमुपन्यस्यति । अपर इति । अस्मन्मते भावयतिग्रहणबलाद् योऽर्थ उक्तः सोऽपि तन्मते बृहत्सज्ञाबललभ्यः एवेति दर्शयति । तथेति । स्वमतमाह- एवमिति । यस्मादीदृशं सूत्रं भ्वादयो धातवः इति न कृतम्, तेनात्र नाव्याप्तिशङ्केति भावः । तर्हि गणपाठो व्यर्थ इत्यत आह - भ्वादीति । अनुबन्धप्रत्ययो गणाद् विवरणार्थः । गुणाश्रय इति पाटवादिगुणाश्रय इत्यर्थः । यद्यपि प्रकृत्यर्थस्य कर्मणि प्रत्ययः, न तु प्रकृत्यर्थे कर्मस्वरूपे, तथापि पाकादिशब्दात् कर्मणि त्यादयः स्युरित्यपि बोध्यम् । द्वितीयादिशब्दवत् प्रकृत्यर्थेऽपि स्युरिति वा सम्भाव्यते ।
॥ इत्याख्यातमञ्जयां क्रियाभावो चातुरितिसूत्रीपटुसिंहकृतटीकायां
विद्यासागरकृता पाख्या समाप्ता॥