Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 515
________________ परिशिष्टम् - १ (आ) एव सिद्धतापरतया लक्षणया उपपादनीयः । व्यतिरेकित्वादिति अन्वयव्यतिरेकव्यभिचारादित्यर्थः । तमेव दर्शयति - तथा हीति । पत्रादेः सिद्धतायामन्वयव्यतिरेकौ दर्शयित्वा साध्यतायामात्मनेपदस्य तौ दर्शयति - असत्यपीति । आत्मनेपदेऽसति घञादिसत्त्वे पचौ सत्यपि साध्यता न प्रतीयते इत्यर्थः । कृदाख्यातवाच्ययोरर्थयोज्ञानभेदादेव भेद इति दर्शयति - अन्य इति । कारकपदं कारकविभक्तिपदम् तेन 'शोभनं पचति' इत्यादौ कर्मत्वस्वीकारेऽपि न दोषः । लिङ्गादिमान् अत्र च शब्दभाव एव नियामकः । यथेति क्रियाभावशब्दौ धर्मवतीमेव क्रियामाहतुः । अन्यस्तु तदभिधायी नास्ति, अत एव धर्मवत एव क्रियात्वमिति । धर्मातिरेके न तत्क्षतिरिति भावः । ४६९ अभावादिति पूर्वाचार्यप्रसिद्धत्वादित्यर्थः । नन्वशुद्धक्रियानिष्ठत्वं न क्रियामात्रप्रतिपादकत्वम् असिद्धेः सर्वेषां प्रवृत्तिनिमित्तवाचकत्वात् 'पच्यते पाकः ' इत्यत्र भावप्रत्यये क्रियामात्रवाचकत्वाक्षतेः : साध्यताया भावनादिरूपायाः क्रियात्वाव्यभिचारात् । नापि सिद्धतासाध्यतानभिधायित्वं पुत्रीयादेरपि तथात्वात् । एवं च भावयतिना तत्र धातुत्वं न स्यादित्येतदर्थं “ते धातवः” (३ ।२।१६) इति वचनम् इत्यग्रिमग्रन्थस्यासङ्गतिः, तेन क्रियापदं क्रियानिष्ठधर्मरहितक्रियापरमिति कुलचन्द्रप्रलापोऽप्यपास्तः । नाप्यलाक्षणिकत्वं चिकीर्षादिं प्रति “ते धातवः " ( ३ । २ । १६ ) इति वचनं सुखार्थमिति ग्रन्थासङ्गतेः । उच्यते - यदुत्तरप्रत्ययेन साध्यत्वं क्रमिकत्वं चालोच्यते, तदनपेक्षक्रियावाचित्वमेवात्र शुद्धक्रियानिष्ठत्वम् | पच्यते इत्यादिः पुत्रीयतीत्यादिश्च न तथा प्रत्ययस्य नाम्नश्च सुखसमुदयान्तर्गतत्वेनापेक्षणाच्चिकीर्षादिस्तु धातुसंज्ञा सिद्धैव प्रकृतेश्चोत्तरं प्रत्ययेन साध्यत्वाद्यभिधानात् । कथं पुनरयमर्थो लभ्यते इति चेत्, प्रत्ययवाच्यसाध्यताक्रमिकताश्रयो हि क्रियेत्युक्तम्, तद्वाचकोऽपि यदुत्तरप्रत्ययेन साध्यताऽभिधीयते स एव प्रत्यासत्त्या वाचकः । अत्र च भावयति - ग्रहणबला क्रियावाचकान्यानपेक्षक्रियावाचकत्वलांभः, अन्यथा क्रियात्व इति विदध्यात् । न च प्रत्यासत्त्या साध्यतावाचिप्रत्यययोग्यस्य क्रियाभावस्यैव ग्रहणमिष्यताम्, किं पुत्रीयाद्यर्थं " ते धातवः " ( ३।२।१६) इत्यस्य स्वीकारेणेति वाच्यम् । ‘मृद्वपाक्षीत्' इत्यत्र मृदुपचिसमुदायस्यापि धातुत्वापत्तेः । तदुत्तरप्रत्ययेनापि विशिष्टक्रियासाध्यताभिधानात् । यद् वा भावयतिना क्रियामेव भावयतीति नियम उच्यते, अत्र च क्रियाभिन्नमात्रं न नियमव्यावृत्तं सर्वस्यैव प्रवृत्तिनिमित्ताभिधायित्वात्, किन्तु प्रागुक्तप्रत्यासत्त्या क्रियापदस्यात्र स्वसाध्यस्वक्रमिकत्ववाचकप्रत्ययसम्बन्धिशब्दप्रतिपाद्यत्वक्रियाविशेषपरत्वं स्वसाध्यत्वक्रमिकत्ववाचकप्रत्ययसम्बन्धिशब्दवाच्यत्वमेव क्रियालक्षणमिति स्थिते तादृशीं क्रियामेव भावयति न तु साध्यतादिवाचकप्रत्ययरहितशब्दाभिधीयमानं भावयति, यतस्तस्य

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564