Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 513
________________ * रेशिष्टम् - १ (आ) सद्वादः साङ्ख्यमतं कारणं बीजादिकं कार्यम् अङ्कुरादिकं परिणमते अन्यथात्वं लभते विकरोतीति यावत् । तथा च बीजमङ्कुरो जायते इति वाक्यार्थः । ननु बीजं कर्तृ अङ्कुरस्योत्पत्तिरिति भिन्नविषयत्वं तदवस्थमेव, यदि च बीजाङ्कुरयोरभेदः, हन्त तर्हि कस्योत्पत्तिः, पूर्ववदेव बीजमात्रमुपलभ्यते इत्यत आह - जन्मार्थ इति । आविर्भावः कार्यभूतोऽङ्कुर एव जन्मार्थे जन्माश्रयः प्रागसत्त्वात् । तथा च तन्मते कार्यकारणयोर्भेदाभेदस्वीकारात् कारणरूपेण कर्तृत्वं कार्यरूपेण चोत्पत्तिरिति भावः । अत एव च्चिप्रत्ययोऽपीत्याह - प्रकृतिरिति । तथा जन्मनः क्रमिकत्वाभावात् कथं क्रियात्वमित्याशङ्का प्रागुक्तसकलपक्षे समाधत्ते-कार्येति ।कुलचन्द्रस्तु ये तु मन्यन्ते कारणे कार्यशक्तिरूपं कर्तशक्तिमतश्चोत्पत्तिः सदैव भेदश्च तयोर्नास्तीति,तन्मतेनाह - जन्मार्थ इति । जन्मार्थो जन्मकारणम्, आविर्भावः शक्तिमान्, नवा समुच्चये, वृद्धसाङ्ख्यः पुनराह - नासतः प्रादुर्भावः, अपि तु सतः, तदा को जन्मार्थ इति चेद् अप्रकाशस्य स्फुटीभवनमात्रम् अङ्कुरो हि बीजम् अन्यथाकुर्वन् जायते पत्रकाण्डनालादिभेदेन स्फुटीस्यादिति । अत उक्तं वृत्तौ अथवेति । अमुमेव पक्षमाश्रित्याह – कार्येति । व्याचष्टे उच्छूनलताग्रशिथिलावयवसंयोगः । ननु कारणस्योच्छूनलताद्यनेकक्रमिकावस्थानत्वेऽपि जन्मनः कथं क्रमिकत्वम् आद्यक्षणसम्बन्धादिरूपस्य तस्यैकत्वादित्याशङ्क्याह - न चेति । कारणगतो बीजगतः कारणव्यापारस्य कार्यार्थतया तक्रमोऽपि कार्यजन्मनाऽध्यवसीयते इति प्रत्ययवाच्यक्रमिकत्वरूपस्य नोक्तक्रियालक्षणस्य व्याप्तिरिति समाधत्ते कार्येति । यदा तु स्फुटीभावमात्रं जन्मार्थस्तदा जायते इत्यत्र पत्रादिभेदात् क्रमशः स्फुटीभवतीत्यर्थः । वस्तत एव क्रमिकत्वात् किमारोपेणेति भाव्यम् । वैशेषिके व्याकरणस्य सर्वपारिषदत्वाद् एकस्यापि बहुधा व्याख्यानं न पिष्टपेषणदोषमावहति । अदृष्टं धर्माधर्मों, तप्रबोधितारम्भे कार्यजनने शक्तिर्येषामिति विग्रहः । परमाणवस्त्वादिकारणं नित्यभूतास्त एव कर्तार इत्यर्थादायातम्, समवायिकारणम् अङ्करावयवो निमित्तं भूमिजलादिविकाररूपं कार्यद्रव्यं कार्यद्रव्यस्याङ्कुरस्य । एतदुक्तं भवति क्षित्युदकसहकारिणो बीजस्य नाशकादृष्टत्वादुपजातक्रियस्य विभागादवयविद्रव्यनाशे विभक्ताः परमाणवः पुनरारम्भकादृष्टादुपजायते क्रियाभिर्जनितमित्त्थं संयोगाद् ह्यणुकादि जायते ट्यणुकादितोऽपि चतुरणुकादि इत्यादिक्रमेणान्तेऽङ्कुरो जायते । तथा चाकुरपदं तदारम्भकपरमाणुपरम्, धातुस्तु जन्मार्थो मिलने व्यापारे वर्तते । परमाणवोऽङ्कुरोत्पत्त्यनुकूलक्रमिकव्यापारवन्त इत्यर्थः । एतेन परमाणव एव ट्यणुकादिद्वारा अङ्कुरेऽपि हेतुरिति कन्दलीकारमतेनोक्तम् । ये तु परमाणूनां ट्यणुकमात्रे हेतुत्वमाहुस्तन्मतेऽङ्कुरशब्दस्य तदवयवमात्रे लक्षणा, न चेद् एवम् अङ्कुरावयवो जायते इति प्रयोग : स्यात् । कस्मिंश्चिदन्वयबोधे

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564