Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 486
________________ ४४० कातन्त्रव्याकरणम् [क० च०] पूजोत० । ‘माणवकमुपनयते' इत्यनेनात्मनेपदेन सह तुल्यार्थत्वात् कथम् 'विनिन्युरेनं गुरवे गुरुप्रियम्' इति रघुकारः परस्मैपदम् ? सत्यम् । आचार्यकरणं न विवक्षितम्, किन्तु अध्यापयामासुरित्यर्थः ।। ४९२।३१। ४९२/३२. कर्तृस्थामूर्तकर्मकश्च [दु० वृ०] कर्तृस्थममूर्तमकठिनं कर्म यस्य नयतेरिति विग्रहः । कर्तृस्थामूर्तकर्मको नयती रुचादिर्भवति । क्रोधं विनयते । हर्ष विनयते । उपशमयतीत्यर्थः । कर्तृस्थ इति किम् ? देवदत्तो यज्ञदत्तस्य मन्युं विनयति । अमूर्त इति किम् ? गण्डं विनयति । कर्म इति किम् ? बुद्ध्या विनयति ।। ४९२१३२ । [दु० टी०] कर्तृ० । कर्तृस्थममूर्तमकठिनं कर्म यस्य नयत्यर्थस्येति भावः । क्रोधं विनयते । कर्तृस्थ इति किम् ? छात्रस्य मन्यु विनयति । अमूर्त इति किम् ? गण्डु विनयति ।। ४९२।३२। [वि० प०] कर्तृस्था० । कर्तृस्थममूर्तमकठिनं कर्म यस्य नयतेरिति विग्रहः । क्रोधं विनयते, हर्षं विनयते । शमयतीत्यर्थः । कर्तस्थ इति किम् ? देवदत्तो यज्ञदत्तस्य मन्युं विनयति | अमूर्त इति किम् ? गण्डं विनयति ।।४९२।३२। [क० च०] कर्तृस्था० । उभयपदित्वादात्मनेपदसिद्धौ नियमार्थमिदमिति, कर्तृस्थामूर्तकर्मकेत्यादिना आत्मनेपदमेव । तर्हि कथम् 'नयन्ति पौरुषम्' इति भारविः ? सत्यम्, उपसर्गादित्यतो मण्डूकप्लुत्या उपसर्ग इत्यनुवर्तते, तेनोपसर्गात् परस्यैवास्य सूत्रस्य विषयः । इदन्तु केवलमिति ।। ४९२।३२। ४९२/३३. वृत्त्युत्साहतायनेषु क्रमः [दु० वृ०] एष्वर्थेषु क्रमो रुचादिर्भवति । वृत्तिरप्रतिबन्धः । उत्साहश्चैतसिको धर्मः । तायनं स्फीतता । ऋद्धस्य क्रमते बुद्धिः, न विहन्यते इत्यर्थः । अध्ययनाय क्रमते छात्रः, उत्सहते इत्यर्थः । नीतिमति श्रियः क्रमन्ते, स्फीतीभवन्तीत्यर्थः ।। ४९२।३३। [दु० टी०] वृत्त्यु० ।वृत्तीयादि । वृत्तिरप्रतिबन्धः । उत्साहश्चैतसिको धर्मः तायनं स्फीतता ।

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564