Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 504
________________ ४५८ कातन्त्रव्याकरणम् ४९२/६२. हेतुकर्तृभीस्म्योरिन् [दु० वृ०] हेतुकर्तुः सकाशाद् यौ भीस्मी, तयोर्य इन् स रुचादिर्भवति । मुण्डो भीषयते । भीषिचिन्तीति वचनाद् भियः सान्तता । जटिलो विस्मापयते । हेतुकर्तुरिति किम् ? कुञ्चिकयैनं विभाययति, रूपेणं विस्माययति ।। ४९२।६२। [दु० टी०] हेतु० । हेत्वित्यादि । हेतुकर्तृतो यौ भीस्मी, तयोर्य इन्नित्यर्थः क्रियायाः कारकसाध्यायास्ततो भावाद् धातुरपि तथोपचर्यते सम्बन्धे षष्ठी वा । मुण्डो भीषयते, जटिलो विस्मापयते । हेतुकर्तरीति किम् ? कुञ्चिकयैनं विस्माययति, भाययति ।।४९२।६२। [वि० प०] ___ हेतु० । हेतुकर्तुः सकाशाद् यौ भीस्मी तयोर्य इन् रुचादिरित्यर्थः । क्रियायाः कारकसाध्याया हेतुकर्तृताभावात् तद्वाचकावपि भीस्मी तथोपचर्येते, सम्बन्धे षष्ठी वा । हेतुकर्तुः सम्बन्धिनौ यौ भीस्मी तयोरिन्निति । मुण्डो भीषयते । भीषिचिन्तीति वचनाद् भियः सान्ततेति वक्ष्यति, जटिलो विस्मापयते । उभयत्रापि हेत्वर्थे इन् । "स्मिजिक्रीडामिनि" (३।४।२४) इति स्मयतेराकारः ||४९२१६२। ४९२/६३. प्रलम्भने गृधिवञ्च्योः [दु० वृ०] गधिवञ्च्योर्य इन स रुचादिर्भवति प्रलम्भनेऽर्थे । वटुं गर्धयते, वटुं वञ्चयते, प्रतारयतीत्यर्थः । प्रलम्भन इति किम् ? श्वानं गर्धयति । आकाङ्क्षामस्योत्पादयतीत्यर्थः ।।४९२ । ६३। [दु० टी०] प्रलम्भन इत्यादि । इन्नित्येव । प्रलम्भनं विसंवादनम् । वटुं गर्द्धयते, वटुं वञ्चयते | प्रलम्भन इति किम् ? श्वानं गर्द्धयति, अहिं वञ्चति ।।४९२।६३। [वि० प०] प्रल० । इन्नित्येव प्रलम्भनं विसंवादनम् । वर्ल्ड गर्द्धयते । वटुं वञ्चयते, प्रतारयतीत्यर्थः । प्रलम्भन इति किम् ? श्वानं गर्द्धयति । आकाङ्क्षामस्योत्पादयतीत्यर्थः ।।४९२।६३। [क० च०] प्रलम्भने । 'वञ्चयन् प्रणयिनी ललाप सः' इति रघुकाव्ये । स्खलितमिति केचित् । वस्तुतस्तु परिहारं कुर्वन्नित्यर्थः ।।४९२।६३।

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564