Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 502
________________ ४५६ कातन्त्रव्याकरणम् [दु० टी०] अशने । भुङ्क्ते । अशन इति किम् ? भुनक्ति, पृथिवीं पालयतीत्यर्थः । प्रभुजति वस्त्रम्, कुटिलं करोतीत्यर्थः ।। ४९२ । ५९। [वि० प०] अशने । भुङ्क्ते, रुधादित्वान्न शब्दः, “रुधादेर्विकरणान्तस्य" इत्यकारलोपः । अशन इति किम् ? भुनक्ति पृथिवीं राजा, पालयतीत्यर्थः । प्रभुजति, वस्त्रं कुटिलं करोतीत्यर्थः । कथमेतत् “अम्बरीषश्च न भोगो बुभुजाते चिरं महीम्" इति ? अत्र 'भुजो अनवने' (५।५३) इति कुर्वन्तोऽवनात् पालनादन्यत्र सर्वत्र भवतीत्याहुः । अत्र किल पालनं न च विवक्षितम्, अपि तु तदाश्रय उपकारः 'अनेकार्थाश्च धातवः' इत्युपकारे च वर्तते इति । यद्येवं 'प्रभुजति वस्त्रम्' इत्यत्रापि स्यादिति चेत्, न । अनवनप्रतिषेधेन तद्विषयस्य रौधादिकस्यैव 'भुज पालनाभ्यवहारयोः' (६।१४) इत्यस्य ग्रहणम् । अयं च तौदादिकः 'भुजो कौटिल्ये' (५।५३) इति कुतः प्रसङ्गः ? अयं पुनरपप्रयोग इति मन्यते व्यावृत्तेरभावात् । न हि पालनादन्यस्तदाश्रय उपकारोऽस्तीति । अशने भुजिरित्येतदेव युक्तम् । उपभुङ्क्ते, परिभुङ्क्ते इति भोजनविषय एवायमिति ।। ४९२।५९। [क० च०] अश० । अशनमिह भक्षणम् । तदा कथं 'दिवं मरुत्वानिव भोक्ष्यते महीम्' इति, तथा 'नारीमुखस्पर्शसुखानि भुङ्क्ते' । 'बुभुजे पृथिवीपालः' इति खुः। 'यशो भुङ्क्ते यावद्भुजाहृतम्' इति, मेदिनीमुपभुङ्क्ते नरेन्द्रः' इत्यादि च ? सत्यम्, अशनशब्दोऽत्र उपभोगवचनः, न तु भक्षणमात्रवचनः इति रुचादेराकृतिगणत्वात् । 'अश भोजने' (८।४३) इति भुज्यर्थमात्रे अशेरनुशासनाच्च । अत एव पञ्ज्यां वक्ष्यति । उपभोगोऽपि भोजनविशेष इति । तर्हि कथं 'बुभुजाते चिरं महीम्' इत्ययमपप्रयोगो मन्यते इति पञ्जीकृतोक्तम् ? चेत् परसूत्रव्याख्याभिप्रायेणैव तदुक्तम्, न तु स्वमतम् एतदनवगम्य भट्टेन पञ्जी दूषिता, तत् तुच्छमेव ।।४९२।५९। ४९२/६०. समः क्ष्णुः [दु० वृ०] समः परः क्ष्णू रुचादिर्भवति । संक्ष्णुते शस्त्रम्, निर्मलं करोतीत्यर्थः ।। ४९२।६०। [दु० टी०] समः क्ष्णुरिति । संक्ष्णुते शस्त्रम्, सकर्मकार्थं “समो गमृच्छि" (३।२।४२-२०) इत्यादिषु न कृतः पाठः ।। ४९२।६०।

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564