________________
४५६
कातन्त्रव्याकरणम्
[दु० टी०]
अशने । भुङ्क्ते । अशन इति किम् ? भुनक्ति, पृथिवीं पालयतीत्यर्थः । प्रभुजति वस्त्रम्, कुटिलं करोतीत्यर्थः ।। ४९२ । ५९।
[वि० प०]
अशने । भुङ्क्ते, रुधादित्वान्न शब्दः, “रुधादेर्विकरणान्तस्य" इत्यकारलोपः । अशन इति किम् ? भुनक्ति पृथिवीं राजा, पालयतीत्यर्थः । प्रभुजति, वस्त्रं कुटिलं करोतीत्यर्थः । कथमेतत् “अम्बरीषश्च न भोगो बुभुजाते चिरं महीम्" इति ? अत्र 'भुजो अनवने' (५।५३) इति कुर्वन्तोऽवनात् पालनादन्यत्र सर्वत्र भवतीत्याहुः । अत्र किल पालनं न च विवक्षितम्, अपि तु तदाश्रय उपकारः 'अनेकार्थाश्च धातवः' इत्युपकारे च वर्तते इति । यद्येवं 'प्रभुजति वस्त्रम्' इत्यत्रापि स्यादिति चेत्, न । अनवनप्रतिषेधेन तद्विषयस्य रौधादिकस्यैव 'भुज पालनाभ्यवहारयोः' (६।१४) इत्यस्य ग्रहणम् । अयं च तौदादिकः 'भुजो कौटिल्ये' (५।५३) इति कुतः प्रसङ्गः ? अयं पुनरपप्रयोग इति मन्यते व्यावृत्तेरभावात् । न हि पालनादन्यस्तदाश्रय उपकारोऽस्तीति । अशने भुजिरित्येतदेव युक्तम् । उपभुङ्क्ते, परिभुङ्क्ते इति भोजनविषय एवायमिति ।। ४९२।५९।
[क० च०]
अश० । अशनमिह भक्षणम् । तदा कथं 'दिवं मरुत्वानिव भोक्ष्यते महीम्' इति, तथा 'नारीमुखस्पर्शसुखानि भुङ्क्ते' । 'बुभुजे पृथिवीपालः' इति खुः। 'यशो भुङ्क्ते यावद्भुजाहृतम्' इति, मेदिनीमुपभुङ्क्ते नरेन्द्रः' इत्यादि च ? सत्यम्, अशनशब्दोऽत्र उपभोगवचनः, न तु भक्षणमात्रवचनः इति रुचादेराकृतिगणत्वात् । 'अश भोजने' (८।४३) इति भुज्यर्थमात्रे अशेरनुशासनाच्च । अत एव पञ्ज्यां वक्ष्यति । उपभोगोऽपि भोजनविशेष इति । तर्हि कथं 'बुभुजाते चिरं महीम्' इत्ययमपप्रयोगो मन्यते इति पञ्जीकृतोक्तम् ? चेत् परसूत्रव्याख्याभिप्रायेणैव तदुक्तम्, न तु स्वमतम् एतदनवगम्य भट्टेन पञ्जी दूषिता, तत् तुच्छमेव ।।४९२।५९।
४९२/६०. समः क्ष्णुः [दु० वृ०] समः परः क्ष्णू रुचादिर्भवति । संक्ष्णुते शस्त्रम्, निर्मलं करोतीत्यर्थः ।। ४९२।६०। [दु० टी०]
समः क्ष्णुरिति । संक्ष्णुते शस्त्रम्, सकर्मकार्थं “समो गमृच्छि" (३।२।४२-२०) इत्यादिषु न कृतः पाठः ।। ४९२।६०।