________________
४५७
परिशिष्टम् - १ (अ) [वि० प०]
समः क्ष्णुः । संक्ष्णुते शस्त्रम्, निर्मलं करोतीत्यर्थः । “समो गमृच्छि" (३।२।४२२०) इत्यादौ कथं पाठोऽस्य न कृतः इति न देश्यम्, अस्य सकर्मकत्वाद् अकर्मकश्चेति अत्रानुवर्तते ।।४९२।६०।
[क० च०]
समः । “समः प्रतिज्ञायाम्" (३।२।४२-४८) इत्यस्यानन्तरं क्ष्णुरिति न कृतम्, प्रतिज्ञायामित्यनुवर्तनशङ्कया च ।।४९२।६०।
४९२/६१. स्वरायन्तादुपसर्गादयज्ञपात्रेषु युजिर् [दु० वृ०]
स्वर आदिरन्तोऽवयवो यस्योपसर्गस्येति विग्रहः । स्वरादिमात्रात् स्वरान्ताच्चेति यः शब्दः स्वरादिर्व्यञ्जनान्तः, यश्च व्यञ्जनादिः स्वरान्तश्च ततोऽपि युजी रुचादिर्भवति । उद्युङ्क्ते, उपयुङ्क्ते, प्रयुङ्क्ते । स्वराद्यन्तादिति किम् ? संयुनक्ति । अयज्ञपात्रेष्विति किम् ? यज्ञपात्रं प्रयुनक्ति ।।४९२।६१।
[दु० टी०]
स्वरा० । स्वरेत्यादि । स्वर आदिरन्तोऽवयवो यस्योपसर्गस्येति विग्रहः । स्वरादिमात्रात् स्वरान्तमात्राच्चेत्यर्थः । स्वरादिर्यः स्वरान्तश्च स पक्षद्वयेऽप्यन्तर्भूत इति उपयुक्ते, नियुङ्क्ते । स्वराद्यन्तादिति किम् ? संयुनक्ति । अयज्ञपात्रविषय इति किम् ? यज्ञपात्रं प्रयुनक्ति । इरनुबन्धः किम् ? 'युज समाधौ' (३।११५) इत्यस्य नियमो मा भूत् । यस्यैव यज्ञपात्रविषये प्रयोगस्तस्यैव युजेर्वाग्रहणमिति । प्रतिपत्तिरियं गरीयसीति ।। ४९२।६१।
[वि० प०]
स्वरा० । स्वर आदिरन्तोऽवयवो यस्योपसर्गस्येति विग्रहः । स्वरादिमात्रात् स्वरान्तमात्राच्चेति यः स्वरादिळञ्जनान्तो यश्च व्यञ्जनादिः, स्वरान्तस्ततोऽपीत्यर्थः यश्च स्वरादिः स्वरान्तश्च वा स पक्षद्वयेऽप्यन्तर्वर्तते इति ततोऽपि भवति ।।४९२।६१।
[क० च०]
स्वरात् । नन्वस्य धातोरुभयपदित्वादेवात्मनेपदं सिद्धम्, किमनेन ? सत्यम्, उपसर्गात् परस्यात्मनेपदं भवत् स्वरान्तोपसर्गादेव, नान्योपसर्गात् परस्मैपदमेव, केवलस्याप्युभयपदित्वमेवेति निश्चितम् । अत एव 'प्रजासु वृत्तिं यमयुक्त वेदितुम्' इति भारविः । तथा 'बाणं युनक्तिस्म धनुष्वमोघम्' इति काव्यान्तरम् ।। ४९२।६१।