________________
४५८
कातन्त्रव्याकरणम्
४९२/६२. हेतुकर्तृभीस्म्योरिन् [दु० वृ०]
हेतुकर्तुः सकाशाद् यौ भीस्मी, तयोर्य इन् स रुचादिर्भवति । मुण्डो भीषयते । भीषिचिन्तीति वचनाद् भियः सान्तता । जटिलो विस्मापयते । हेतुकर्तुरिति किम् ? कुञ्चिकयैनं विभाययति, रूपेणं विस्माययति ।। ४९२।६२।
[दु० टी०]
हेतु० । हेत्वित्यादि । हेतुकर्तृतो यौ भीस्मी, तयोर्य इन्नित्यर्थः क्रियायाः कारकसाध्यायास्ततो भावाद् धातुरपि तथोपचर्यते सम्बन्धे षष्ठी वा । मुण्डो भीषयते, जटिलो विस्मापयते । हेतुकर्तरीति किम् ? कुञ्चिकयैनं विस्माययति, भाययति ।।४९२।६२।
[वि० प०] ___ हेतु० । हेतुकर्तुः सकाशाद् यौ भीस्मी तयोर्य इन् रुचादिरित्यर्थः । क्रियायाः कारकसाध्याया हेतुकर्तृताभावात् तद्वाचकावपि भीस्मी तथोपचर्येते, सम्बन्धे षष्ठी वा । हेतुकर्तुः सम्बन्धिनौ यौ भीस्मी तयोरिन्निति । मुण्डो भीषयते । भीषिचिन्तीति वचनाद् भियः सान्ततेति वक्ष्यति, जटिलो विस्मापयते । उभयत्रापि हेत्वर्थे इन् । "स्मिजिक्रीडामिनि" (३।४।२४) इति स्मयतेराकारः ||४९२१६२।
४९२/६३. प्रलम्भने गृधिवञ्च्योः [दु० वृ०]
गधिवञ्च्योर्य इन स रुचादिर्भवति प्रलम्भनेऽर्थे । वटुं गर्धयते, वटुं वञ्चयते, प्रतारयतीत्यर्थः । प्रलम्भन इति किम् ? श्वानं गर्धयति । आकाङ्क्षामस्योत्पादयतीत्यर्थः ।।४९२ । ६३।
[दु० टी०]
प्रलम्भन इत्यादि । इन्नित्येव । प्रलम्भनं विसंवादनम् । वटुं गर्द्धयते, वटुं वञ्चयते | प्रलम्भन इति किम् ? श्वानं गर्द्धयति, अहिं वञ्चति ।।४९२।६३।
[वि० प०]
प्रल० । इन्नित्येव प्रलम्भनं विसंवादनम् । वर्ल्ड गर्द्धयते । वटुं वञ्चयते, प्रतारयतीत्यर्थः । प्रलम्भन इति किम् ? श्वानं गर्द्धयति । आकाङ्क्षामस्योत्पादयतीत्यर्थः ।।४९२।६३।
[क० च०]
प्रलम्भने । 'वञ्चयन् प्रणयिनी ललाप सः' इति रघुकाव्ये । स्खलितमिति केचित् । वस्तुतस्तु परिहारं कुर्वन्नित्यर्थः ।।४९२।६३।