________________
परिशिष्टम् - १ (अ)
४५५
[दु० टी०]
शदिरनीति । अन्विकरणाविषय इत्यर्थः । शीयते । अनीति किम् ?
शत्स्यति ।। ४९२ ।५७। [वि० प० ]
शदिरनि । शीयते । शदेः शीयः । अनीति अन्विकरणविषय इत्यर्थः । अन्यत्र न भवति - शत्स्यति ॥। ४९२ ।५७ ।
४९२/५८. आशीरद्यतन्योश्च मृङ्
[दु० वृ०]
चकारादद्यतनीति सम्बध्यते । मृङो ङकारानुबन्धत्वात् सिद्धे नियमार्थमुच्यते । आशीरद्यतन्यन्विकरणविषयेष्वेव मृङ् रुचादिर्भवति नान्यत्र । मृषीष्ट, अमृत, म्रियते || ४९२ ।५८। [दु० टी०]
आशी० | आशीरद्येत्यादि । आशीरद्यतन्योरेव विषये अन्विकरणे चेति । मृषीष्ट, अमृत, म्रियते । एष्विति किम् ? ममार । ऋकारान्तप्रस्तावादात्मनेपदिषु पाठोऽस्येति || ४९२ । ५८ ।
[वि० प० ]
आशी० । चकारादनीति सम्बध्यते । मृङो ङकारानुबन्धत्वात् सिद्धे नियमार्थमुच्यते । आशीरद्यतन्यन्विकरणेष्वेव विषयेषु भवति, नान्यत्र । मृषीष्ट, अमृत | “हस्वाच्चानिटः” (३।६।५२) इति सिचो लोपः, “ऋदन्तानां च" (३।५।११) इत्यगुणत्वम् । म्रियते । “ इरन्यगुणे” (३।४।७३ ) इतीकारागमः । “स्वरादाविवर्णोवर्णान्तस्य " ( ३ | ४|५५) इत्यादिना इयादेशः । अन्यत्र न भवति - मरिष्यति, ममार । अस्य चात्मनेपदिषु पाठः,. 'धृड् अनवस्थाने, पृङ् व्यायामे' (५/११३, ११०) इत्यादि ऋकारान्तधातुप्रस्तावात्, न तु आत्मनेपदार्थ इति || ४९२ ।५८।
[क० च०]
आशी० | मृषीष्ट इत्यादि । ननु कथं मरणम् आशीर्विषयम् ? सत्यम्, अतिशयव्याधिपीडितानां मरणमपि श्रेय न दुष्यतीति ।। ४९२ ।५८ । ४९२ / ५९. अशने भुजिः
[दु० वृ०]
अशनेऽर्थे भुजी रुचादिर्भवति । ओदनं भुङ्क्ते । अशन इति किम् ? भुनक्ति पृथिवीं राजा, पालयतीत्यर्थः । प्रभुजति, वस्त्रं कुटिलं करोतीत्यर्थः ।। ४९२ । ५९ ।