________________
४५४
कातन्त्रव्याकरणमा
[वि० प०]
दाण० । सा चेच्चतुर्थ्यर्थे भवति, तदा समा दाण रुचादिरित्यर्थः । इह पूर्वतः सम इति विशेषणसम्बन्धे षष्ठी, समा विशिष्टो दाण इति, सम्बन्धस्तु व्यवधानेऽप्यस्त्येव इत्युपसर्गान्तरव्यवहिते सम्-शब्दे भवति । दास्या सम्प्रयच्छते मालां कामुकः । “दाणो यच्छः" (३।६७५) इति यच्छादेशः । दास्यै ददातीत्यर्थः । कथमिह चतुर्थ्यर्थे तृतीया, न ह्यशिष्टव्यवहारे तृतीयेति वक्तव्यमस्तीति ? सत्यम्, इह सम्प्रदानस्य करणत्वेन विवक्षा, सा चाशिष्टव्यवहार एव लोके स्थिता । यदाह चन्द्रगोमी- सा चेहाशिष्टव्यवहार एव लौकिकी विवक्षेति | जिनेन्द्रबुद्धिरप्याह- लौकिकी विवक्षैव समाश्रीयते । सा चेच्चतुर्थ्यर्थ इति किम् ? दास्यै सम्प्रयच्छति भिक्षां छात्रेभ्यः । तृतीयायुक्त इति किम् ? दास्यै सम्प्रयच्छति मालाम् ।।४९२१५५।।
४९२/५६. उद्वाहे उपयम [दु० वृ०]
उद्वाहे विवाहे उपपूर्वो यमी रुचादिर्भवति । कन्यामुपयच्छते, विवाहयतीत्यर्थः ।।४९२१५६।
[दु० टी०]
उद्वाहे० | उपेत्यादि । कन्यामुपयच्छते, विवाहयतीत्यर्थः । अन्य आह - स्वीकरणमात्रे वक्तव्यम् । 'कोपात् काश्चित् प्रियाः प्रभोरुपायंसत नासवम्'। ताभिर्मा न स्वीकृतम् इत्यर्थः ।।४९२।५६ ।
[वि० प०]
उद्वाहे उपयमः । उद्वाहे विवाहेऽर्थे उपपूर्वो यमी रुचादिरित्यर्थः । कन्यामुपयच्छते विवाहयतीत्यर्थः ।। ४९२ । ५६।
[क० च०]
उद्वाहे० | ननु कथम् ‘कोपात् काश्चित् प्रियाः प्रभोरुपायंसत नासवम्' इति, तथा 'शस्त्राण्युपायंसत जित्वराणि' इति, तथा 'उपायंस्त महास्त्राणि' इति ? सत्यम्, "उपाद् यमः स्वीकरणे" (अ० १।३।५६) इति पाणिनिः । स्वीकरणम् आत्मीयकरणमात्रम्, तत्रात्मनेपदम् इति भाषावृत्तिः। अस्मन्मते यजाद्याश्रयणादिति ।। ४९२।५६।
४९२/५७. शदिरनि [दु० वृ०]
शदधातू रुचादिर्भवति अनि विकरणे । शीयते । अन्यत्र न भवति । यथा शत्स्यति ।। ४९२१५७।