________________
परिशिष्टम् - १ (अ)
४५३
४९२/५४. समस्तृतीयायुक्तः [दु० वृ०]
सम्-शब्दविशिष्टस्तृतीयान्तेन युक्तश्चरती रुचादिर्भवति । रथेन सञ्चरते । सम इति किम् ? रथेन चरति । तृतीयायुक्त इति किम् ? उभौ लोकौ सञ्चरति, इमं चामुं च देवल इति ।। ४९२।५४।
[दु० टी०]
समस्तृतीयायुक्त इति । रथेन सञ्चरते । दृतीयान्तेन युक्त इति किम् ? उभौ लोकौ सञ्चरति, इमं चामुं च देवलः । तपसा विद्यया वा इत्यादिह गम्यते ।।४९२।५४।
[वि० प०]
समस्तृतीयायुक्तः । सम्-शब्दविशिष्टस्तृतीयान्तेन युक्तश्चरतिरित्यर्थः । रथेन संचरते । सम इति किम् ? रथेन चरति । तृतीयायुक्त इति किम् ? उभौ लोकौ संचरति, इमं चामुं च देवलः । यद्यपि विद्यया तपसा वेत्यर्थात् तृतीयान्तो गम्यते, तथापि तृतीयायुक्तग्रहणं साक्षात् तृतीयान्तप्रतिपादनार्थमिति प्रत्युदाह्रियते, अन्यथा करणमन्तरेण क्रियासिद्धेरभावाद् व्यावृत्तिरेव न घटते इत्यर्थः ।। ४९२।५४।
[क० च०]
सम० । कथं संचरत्यविरतं सह सैन्यैरिति ? सत्यम्, क्रियाकारकयोरन्तरङ्गसम्बन्धात् करणतृतीयाया एव ग्रहणम्, न तु सहार्थतृतीयाया इति ।।४९२ । ५४ ।
४९२/५५. दाण सा चेच्चतुर्थ्यर्थे [दु० वृ०]
समस्तृतीयायुक्त इति वर्तते, सा तृतीया यदि चतुर्थ्यर्थे भवति, तदा समः परो दाण रुचादिर्भवति । दास्या मालां सम्प्रयच्छते कामुकः । सा चेच्चतुर्थ्यर्थ इति किम् ? दास्या सम्प्रयच्छति भिक्षां छात्तेभ्यः । तृतीयायुक्त इत्येव - दास्यै सम्ण्यच्छति भिक्षाम् ।।४९२।५५।
[दु० टी०]
दाण सा चेत् । समस्तृतीयायुक्त इत्येव । सा यदि तृतीया चतुर्थ्यर्थे भवति । इह पूर्वत्र च सम इति विशेषणसम्बन्धे षष्ठी । समा विशिष्टो दाणिति, तेन व्यवधानेऽपि न विरुध्यते । दास्या सम्प्रयच्छते मालां कामुकः । करणत्वविवक्षायामियं तृतीया स्याद् अशिष्टव्यवहारे वक्तव्येति भावः । सा चेच्चतुर्थ्यर्थ इति किम् ? दास्या सम्प्रयच्छति भिक्षाम् । भाष्यकारस्तु सहयोगे तृतीया । व्यतीहाराच्चात्मनेपदमिति प्रत्याचष्टे ||४९२/५५।