________________
४५२
कातन्त्रव्याकरणम्
[वि०प०]
स्नुनमौ । नमिरन्तर्भूतकारितार्थो नमयति दण्डं देवदत्तः, नमते दण्डः स्वयमेवेति कर्मवद्भावस्य बाधितत्वाद् यणिचौ न भवतः । स्वयमिति किम् ? प्रस्नौति गौर्दोग्धुः कौशलेन, नमति पल्लवो वातेन ।।४९२ । ५२ ।
[क० च०]
स्नुनमौ । कर्मकर्तृस्थ इति निवृत्तमिति । ननु यदीदमुच्यते तत् कथम्-नमयति दण्डं देवदत्तः, नमते दण्डः स्वयमेव, कर्मवद्भावस्य बाधितत्वाद् यणिचौं न भवतः, परपङ्क्तिः संगच्छते ? सत्यम्, इहापि स्वयंग्रहणं कर्मकर्तृस्थपरम्, तर्हि कथं तन्निवृत्त्यर्थं स्वयंग्रहणं कृतमिति चेत् ? तन्निवृत्त्या तत्सम्बद्धस्याद्यतन्यामित्यस्य विकल्पस्य च निवृत्तिः साधिता, न तु कर्मकर्तुः । एवं सति स्वयमिति किं कर्मकर्तृस्थमिति किमित्यर्थः । यत्तु स्वयमनन्यप्रेरिते कर्तरीत्युक्तं तदपि कर्मकर्तृ क्रियाप्रेरिते व्यापारानुकूलक्रिया व्याप्यभूतकर्तरीत्यभिप्रायकमेव, तेन यत् क्रियायाः कर्तृत्वं तदनतिरिक्तायां प्रेरितस्तदनुकूलक्रियाव्याप्यभूतकर्मक व पर्यवस्यति । अयं चार्थः कर्मकर्तृप्रस्तावे लभ्यते । अत एव शुद्धकर्तरि प्रत्युदाहृतम् । अन्यथा कर्मकर्तर्येव प्रत्युदाहर्तुमुचितम् ।
ननु यदि नमिरन्तर्भूतकारितार्थ इत्युच्यते । तदा किरादिपाठेनैव सिध्यति किमनेनेति ? सत्यम्, तदान्यप्रेरिते कर्मकर्तरि 'नम्यते पल्लवो वातेन स्वयमेव' इत्यत्रापि कर्मवद्भावो न स्यात्, किन्तु किरादित्वात् कर्मकर्तर्येव स्यादिति हेमकरः ।।४९२।५२।
४९२/५३. उदः सकर्मकश्चर [दु० वृ०]
उदः परः सकर्मकश्चरती रुचादिर्भवति | कुटुम्बमुच्चरते । उत्क्रम्य गच्छतीत्यर्थः । सकर्मक इति किम् ? धूम उच्चरति, उद्गच्छतीत्यर्थः ।।४९२ । ५३ ।
[दु० टी०] __उदः सकर्मकश्चर इति । कुटुम्बमुच्चरते, कुटुम्बमुक्रम्य गच्छतीत्यर्थः । सकर्मक इति किम् ? धूम उच्चरति, ऊर्ध्वं गच्छतीत्यर्थः । भक्षणे सकर्मक इत्यन्ये । शक्तुमुच्चरते । तथा अन्तभूतोक्रमे व्याप्यत्वात् सकर्मक इत्यपरे विदुः ।।४९२।५३ ।
[वि० प०]
उदः सकर्मकश्चरः । कुटुम्बमुच्चरते, उद्गच्छतीत्यर्थः । सकर्मक इति किम् ? धूम उच्चरति, उद्गच्छतीत्यर्थः ।। ४९२।५३ ।