________________
परिशिष्टम् - १ (अ)
कटः स्वयमेव । एवम् अलविष्ट केदारः स्वयमेव, अलावि केदारः स्वयमेव, अदुग्ध गौः स्वयमेव, अदोहि गौः स्वयमेव || ४९२ । ५१ । [दु० टी०]
४५१
अद्यतन्यां स्वरान्तश्च वेति । अत्रापि कर्तृस्थ इत्येव । अद्यतन्यामिति विषयसप्तमी, चकारेण दुहिरनुकृष्यते ! अकृत कटः स्वयमेव, अकारि कटः स्वयमेव । अलविष्ट केदारः स्वयमेव, अलावि केदारः स्वयमेव, अदोहि गौः स्वयमेव || ४९२।५१ ।
[वि० प० ]
अद्यतन्यां स्वरान्तश्च वा । अत्रापि कर्मकर्तृस्थ एवेति अद्यतन्यां विषये स्वरान्तो यो धातुश्चकाराद् दुहिश्च कर्मकर्तृस्थो वा रुचादिरित्यर्थः । अकार्षीत् कटं देवदत्तः, अकृत कटः स्वयमेव, अकारि कटः स्वयमेव । " ह्रस्वाच्चानिटः " ( ३ | ६ |५२) इति सिचो लोपः । पक्षे कर्मवद्भावाद् इच्प्रत्यये वृद्धिः “इचस्तलोपः” (३।४।३२) इति च । एवम् अलविष्ट केदारः स्वयमेव, अलावि केदारः स्वयमेव । अदुग्ध गौः स्वयमेव । पूर्ववद्घत्वादि । "दुहदिहलिहगुहाम्” इति सण् विकल्पितः । पक्षे सिजपि नास्तीति वक्ष्यति । अदोहि गौ: स्वयमेव || ४९२ ।५१ ।
[क० च०]
अद्य० । इदमपि कर्मवद्भावबाधनार्थम् ||४९२ | ५१ | ४९२/५२. स्नुनमौ स्वयम्
[दु० बृ०]
कर्मकर्तृस्थ इति निवृत्तम् । स्वयम् इत्यधिकृतस्य कर्तुर्विशेषणम् । स्वयं कर्तरि स्नुनमौ रुचादी भवतः । अनन्यप्रेरिते कर्तरीत्यर्थः । प्रस्नुते गौः स्वयमेव । पयो मुञ्चतीत्यर्थः । नमिरयमन्तर्भूतकारितार्थः । नमयति दण्डं देवदत्तः, नमते दण्डः स्वयमेव । कर्मवद्भावस्य बाधकत्वाद् यणिचौ न भवतः । स्वयमिति किम् ? प्रस्नौति गौर्दोग्धुः कौशलेन नमति पल्लवो वातेन ।। ४९२ । ५२ ।
[दु० टी०]
"
स्नुनमौ स्वयमिति । कर्मकर्तृस्थमिति निवृत्तम् । स्वयमित्यधिकृतस्य कर्तुर्विशेषणं स्वयं कर्तरि, अनन्यप्रेरिते कर्तरीत्यर्थः । प्रस्नुते गौः स्वयमेव पयो मुञ्चतीत्यर्थः। नमते दण्डः स्वयमेव । अन्तर्भूतकारितार्थो 'नमयति दण्डं छात्रः' इति कर्मवद्भावस्य बाधितत्वाद् यणिचोरविषयः । स्वयमिति किम् ? प्रस्नौति गौर्दोग्धुः कौशलेन, नमति पल्लवो वातेन ।। ४९२।५२ ।