________________
४४०
कातन्त्रव्याकरणम्
[क० च०]
पूजोत० । ‘माणवकमुपनयते' इत्यनेनात्मनेपदेन सह तुल्यार्थत्वात् कथम् 'विनिन्युरेनं गुरवे गुरुप्रियम्' इति रघुकारः परस्मैपदम् ? सत्यम् । आचार्यकरणं न विवक्षितम्, किन्तु अध्यापयामासुरित्यर्थः ।। ४९२।३१।
४९२/३२. कर्तृस्थामूर्तकर्मकश्च [दु० वृ०]
कर्तृस्थममूर्तमकठिनं कर्म यस्य नयतेरिति विग्रहः । कर्तृस्थामूर्तकर्मको नयती रुचादिर्भवति । क्रोधं विनयते । हर्ष विनयते । उपशमयतीत्यर्थः । कर्तृस्थ इति किम् ? देवदत्तो यज्ञदत्तस्य मन्युं विनयति । अमूर्त इति किम् ? गण्डं विनयति । कर्म इति किम् ? बुद्ध्या विनयति ।। ४९२१३२ ।
[दु० टी०]
कर्तृ० । कर्तृस्थममूर्तमकठिनं कर्म यस्य नयत्यर्थस्येति भावः । क्रोधं विनयते । कर्तृस्थ इति किम् ? छात्रस्य मन्यु विनयति । अमूर्त इति किम् ? गण्डु विनयति ।। ४९२।३२।
[वि० प०]
कर्तृस्था० । कर्तृस्थममूर्तमकठिनं कर्म यस्य नयतेरिति विग्रहः । क्रोधं विनयते, हर्षं विनयते । शमयतीत्यर्थः । कर्तस्थ इति किम् ? देवदत्तो यज्ञदत्तस्य मन्युं विनयति | अमूर्त इति किम् ? गण्डं विनयति ।।४९२।३२।
[क० च०]
कर्तृस्था० । उभयपदित्वादात्मनेपदसिद्धौ नियमार्थमिदमिति, कर्तृस्थामूर्तकर्मकेत्यादिना आत्मनेपदमेव । तर्हि कथम् 'नयन्ति पौरुषम्' इति भारविः ? सत्यम्, उपसर्गादित्यतो मण्डूकप्लुत्या उपसर्ग इत्यनुवर्तते, तेनोपसर्गात् परस्यैवास्य सूत्रस्य विषयः । इदन्तु केवलमिति ।। ४९२।३२।
४९२/३३. वृत्त्युत्साहतायनेषु क्रमः [दु० वृ०]
एष्वर्थेषु क्रमो रुचादिर्भवति । वृत्तिरप्रतिबन्धः । उत्साहश्चैतसिको धर्मः । तायनं स्फीतता । ऋद्धस्य क्रमते बुद्धिः, न विहन्यते इत्यर्थः । अध्ययनाय क्रमते छात्रः, उत्सहते इत्यर्थः । नीतिमति श्रियः क्रमन्ते, स्फीतीभवन्तीत्यर्थः ।। ४९२।३३।
[दु० टी०] वृत्त्यु० ।वृत्तीयादि । वृत्तिरप्रतिबन्धः । उत्साहश्चैतसिको धर्मः तायनं स्फीतता ।