________________
परिशिष्टम्-१ (अ) पदार्थानुपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रतिपादयतीत्यर्थः । ते च युक्तिभिर्निश्चाय्यमानाः पूजिता भवन्ति । अभिलषितार्थसम्पादनेनैव तेषां पूजा इत्यर्थः । उत्क्षेपणम् ऊर्ध्वप्रापणम् । माणवकमुपनयते । अधःस्थितं माणवकमूर्ध्वं प्रापयतीत्यर्थः । उपनयनाचार्यक्रिया । माणवकमीदृशेन विधिना आत्मसमीपं प्रापयति, येनासावुपनेत्रा स्वयम् आचार्यः सम्पद्यते । माणवकमुपनयते । आत्मानमाचार्यं कुर्वन् माणवकमात्मसदृशं सम्पादयतीत्यर्थः। ब्रानं प्रमेयनिश्चयः । नयते कात्यायनो व्याकरणे । प्रमेयं निश्चिनोतीत्यर्थः । भृतिः कर्ममूल्यम् । कर्मकरानुपनयते । भृतिदानेन समीपं करोतीत्यर्थः। विगणनम् ऋणादेर्निर्यातनम् । माद्राः कारं विनयन्ते । राजग्राह्यभागं निर्यातयन्तीत्यर्थः। कर एव कारः, स्वार्थे अण, राजग्राह्यभागः कृषकैः रक्षार्थं परिकल्पितः। यो धर्मादिषु विनियोगः। शतं विनयते । धर्मार्थं विनियुङ्क्ते इत्यर्थः । पूजादिष्विति किम् ? अजां नयति ग्रामम् ।। ४९२।३१।
[दु० टी०]
पूजेत्यादि । पूजाद्यर्थविशिष्टो नयतिरित्यर्थः । नयते शर्ववर्मा व्याकरणे, पदार्थान् शिष्येभ्यः प्रतिपादयति । तेषां युक्तिभिर्निश्चाय्यमानानां पूजा । माणवकमुपनयते । उत्क्षेपणेनोर्ध्वं प्रापयतीत्यर्थः । माणवकमुपनयते । उपनयनेन स्वसमीपं प्रापयतीत्यर्थः। नयते कात्यायनो व्याकरणे । प्रमेयं निश्चिनोतीत्यर्थः। कर्मकरानुपनयते । भृतिदानेन स्वसमीपीकरोतीत्यर्थः । माद्राः कारं विनयन्ते । राजग्राह्यभागं निर्यातयन्तीत्यर्थः । शतं विनयते । विनियुङ्क्ते इत्यर्थः ।। ४९२।३१।
[वि०प०]
पूजोत्० । पूजा सम्मानः । नयते शर्ववर्मा व्याकरणे। पदार्थान् उपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रतिपादयतीत्यर्थः । ते च पदार्था युक्तिभिर्निश्चीयमानाः पूजिताः सम्मानिता भवन्तीत्यर्थः । अभिलषितार्थसम्पादनेनैव तेषां पूजा इत्यर्थः । उत्क्षेपणम् ऊर्ध्वप्रापणम् । माणवकमुपनयते । अधःस्थितं माणवकम् ऊर्ध्वं प्रापयतीत्यर्थः । उपनयनमाचार्यक्रिया | माणवकम् ईदृशेन विधिना आत्मसमीपं.प्रापयति येनासा अनेत्रा स्वयमाचार्यः सम्पद्यते । माणवकमुपनयते । आत्मानमाचार्यं कुर्वन् माणवकमात्मसदृशं सम्पादयतीत्यर्थः । ज्ञानं प्रमेयनिश्चयः । नयते कात्यायनो व्याकरणे । प्रमेयं निश्चिनोतीत्यर्थः। भृतिः कर्ममूल्यम् । कर्मकरानुपनयते । भृतिदानेनात्मसमीपं करोतीत्यर्थः। विगणनम् ऋणादेर्निर्यातनम् । माद्राः कारं विनयन्ते । राजग्राह्यभागं निर्यातयन्तीत्यर्थः । कर एव कारः, राजग्राह्यो भागः कृषकै रक्षार्थं परिकल्पितः । व्ययो धर्मादिप्रयोजने द्रव्यस्य विनियोगः । शतं विनयते । धर्माद्यर्थं नियुङ्क्ते इत्यर्थः । पूजादिष्विति किम् ? अजां नयति ग्रामम् ।।४९२।३१।