________________
४३८
कातन्त्रयाकरणम्
[दु० टी०] __ अधेः । शक्तौ वर्तमानात् कृतः । तम् अधिचक्रे । अन्य आह-शक्तौ कर्तरीति तम् अधिचक्रे इति तम् अभिबभूव, न च पराजितस्तेनेत्यर्थः । शक्तो हि परम् अभिभवति, न च परेण पराजीयते ।।४९२।२८।
[वि०प०]
अधेः । शत्रूनधिकुरुते, अभिभवतीत्यर्थः । शक्तो हि परान् शत्रून् अभिभवति । न च परैः पराजीयते । शक्ताविति किम् ? अधिकरोति राजा ।।४९२।२८।
४९२/२९. वेः शब्दकर्मकः [दु० वृ०]
शब्द एव कर्म यस्येति विग्रहः । वेः परः शब्दकर्मकः करोती रुचादिर्भवति । क्रोष्टा विकुरुते स्वरान् । शब्दकर्मक इति किम् ? विकरोति मानसं वसन्तः । कर्म इति किम् ? शब्देन विकरोति मतिम् ।। ४९२।२९ ।
[दु० टी०]
वेः शब्द ० । क्रोष्टा विकुरुते शब्दान् । शब्द इति किम् ? विकरोति मानसम् । शब्दकर्मक इति किम् ? शब्देन विकरोति मतिम् ।।४९२।२९।
[वि० प०]
वेः शब्द एव कर्म यस्येति विग्रहः । क्रोष्टा विकुरुते स्वरान् । शब्दकर्मक इति किम् ? विकरोति मानसं वसन्तः । कर्म इति किम् ? शब्देन विकरोति मतिम् ।।४९२।२९।
४९२/३०. अकर्मकश्च [दु० वृ०]
वेरित्येव । वेः परोऽकर्मकः करोती रुचादिर्भवति । विकुर्वते सैन्धवाः । सिन्धौ भवा जाता वा अश्वाः शोभनं वल्गयन्तीत्यर्थः । ओदनपरिपूर्णाश्छात्रा विकुर्वते, निष्फलं चेष्टन्ते इत्यर्थः ।।४९२।३०।
[दु० टी०]
अकर्मक० । वेरित्येव । विकुर्वते सैन्धवाः। सिन्धौ भवा जाता वा अश्वाः शोभनं वल्गयन्तीत्यर्थः । ओदनपरिपूर्णाश्छात्रा विकुर्वते, निष्फलं चेष्टन्ते इत्यर्थः ॥४९२।३०।
४९२/३१. पूजोत्क्षेपणोपनयनज्ञानभृतिविगणनव्ययेषु नीञ् [दु० वृ०] एष्वर्थेषु नयती रुचादिर्भवति । पूजा सम्मानः । नयते शर्मा व्याकरणे।