________________
परिशिष्टम् - १ (अ)
४३७ वर्त्तिकामुपकुरुते, तिरस्करोतीत्यर्थः। सेवने - गणिकामुपकुरुते, सेवते इत्यर्थः । साहसे - परदारानुपकुरुते, तेषु सहसा प्रवर्तते इत्यर्थः । यत्ने – एधोदकस्योप - स्कुरुते, गुणान्तराधानं करोतीत्यर्थः । उपात् प्रतियत्नविकृतवाक्याध्याहारेषु सुट् । कथायाम् – जनापवादान् प्रकुरुते, प्रकर्षेण कथयतीत्यर्थः । उपयोगे - शतं प्रकुरुते, धर्माद्यर्थं नियुङ्क्ते इत्यर्थः ।। ४९२।२७।
[दु० टी०]
सूच० । सूचनेत्यादि० । सूचनमपकारप्रयुक्तं परदोषाविष्करणम्-अयमिदमुपकुरुते । अवक्षेपणं तिरस्करणम् । श्येनो वर्तिकामुपकुरुते ।सेवनम् अनुवर्तनम् । गणिकामुपकुरुते । साहसं यदबुद्धिपूर्वकं करणम् । परदारानुपकुरुते । यत्नः सतो गुणान्तराधानम् । एधोदकस्योपस्कुरुते । कथा आख्यानम् । जनापवादान् प्रकुरुते, गाथाः प्रकुरुते । उपयोगो धर्मादिप्रयोजने द्रव्यविनियोगः । शतं प्रकुरुते ।।४९२।२७।
[वि० प०]
सूचन० । सूचनम् अपकारप्रयुक्तं परदोषाविष्करणम् । अवक्षेपणं तिरस्करणम् । सेवनम् अनुवर्तनम् । साहसं यदबुद्धिपूर्वकं करणम् । यत्नः सतो गुणान्तराधानम् । कया आख्यानम् । उपयोगो धर्मादिप्रयोजनं द्रव्यस्य विनियोगः । तत्र सूचने-अयमिदमुपकुरुते । सूचयतीत्यर्थः । अवक्षेपणे - श्येनो वर्तिकामुपकुरुते, निर्भर्त्सयतीत्यर्थः । सेवने - गणिकामुपकुरुते, सेवते इत्यर्थः । साहसे - परदारानुपकुरुते, तेषु सहसा प्रवर्तते इत्यर्थः । यत्ने - एधोदकस्योपस्कुरुते, तस्य गुणान्तराधानं करोतीत्यर्थः । “उपात प्रतियत्नविकृतवाक्याध्याहारेषु" (कात० परि०-सं० ११४) इति सुट् । कथायाम् - जनापवादान् प्रकुरुते, प्रकर्षेण कथयतीत्यर्थः । उपयोगे- शतं प्रकुरुते, धर्माद्यर्थं विनियुङ्क्ते इत्यर्थः ।। ४९२।२७।
[क० च०]
सूच० । आङ् इति न सम्बध्यते न स्मर्यते, तत्पूर्वककृञः सूचनार्थत्वाभावात् । यद्यपि उभयपदित्वादात्मनेपदं सिद्धं तथाप्येष्वर्थेषु आत्मनेपदमेव यथा स्यादिति वचनम् ।।४९२।२७।
४९२/२८. अधेः शक्ती [दु० वृ०]
अधेः परः करोती रुचादिर्भवति शक्तौ गम्यमानायाम् । शत्रून् अधिकुरुते । अभिभवतीत्यर्थः । शक्तो हि परानभिभवति, न च परैः पराजीयते । शक्ताविति किम् ? अधिकरोति राजा ।। ४९२।२८।