________________
४३६
कातन्त्रव्याकरणम्
४९२/२५. निसंव्युपेभ्यो हाः [दु० वृ०]
निसंव्युपेभ्यः परो ह्वयती रुचादिर्भवति । निह्वयते, संह्वयते, विह्वयते, उपह्वयते ।।४९२।२५।
[दु० टी०]
निसं० । निसंव्युपेभ्यो हेति । निह्वयते, संह्वयते, विह्वयते, उपह्वयते । एवं निह्वास्यते, संह्वास्यते इति । नहि विकृतिः प्रकृतिं गृह्णातीति न चोद्यम्, जातिप्रधानत्वान्निर्देशस्य ।।४९२।२५।
४९२/२६. स्पर्धायामाङः [दु० वृ०]
आङः परो ह्वयती रुचादिर्भवति स्पर्धायाम् । मल्लो मल्लमाह्वयते । स्पर्धा पराभिभवेच्छा । यद्यपि आङ्परो ह्वयतिः स्पर्धायां न वर्तते, किन्त्वाह्वाने, तथापि स्पर्धाविषयकम् आह्वानमिह स्पर्धेच्यते उपचारात् । मल्लः स्पर्धमानो मल्लान्तरमाह्वयति = आकारयति ।।४९२।२६।
[दु० टी०]
स्पर्धायाम् । मल्लो मल्लमाह्वयते । स्पर्धा पराभिभवेच्छा | आङः पूर्वस्य ह्वयतेः स्पर्धायां वृत्त्यसंभवात् स्पर्धाविषयमाह्वानं स्पर्धेच्यते । स्पर्धमानमाह्वयतीत्यर्थः । यदा तु आपूर्वोऽपि स्पर्धावृत्तिः साक्षात्, तदा मल्लो मल्लमाह्वयते स्पर्धयतीत्यर्थः ।।४९२।२६।
[वि० प०]
स्पर्धायामाङः । स्पर्धा पराभिभवेच्छा । यद्यपि आयूर्वो ह्वयतिः स्पर्धायां न वर्तते किन्वाह्वाने, तथापि स्पर्धाविषयमिहाह्वानं स्पर्धेच्यते इहोपचारात् । मल्लो मल्लमाह्वयते । मल्लः स्पर्धमानो मल्लान्तरमाह्वयति आकारयतीत्यर्थः । स्पर्धायां किम् ? पिता पुत्रम् आह्वयति || ४९२।२६।
४९२/२७. सूचनावक्षेपणसेवनसाहसयत्नकथोपयोगेषु कृञ् [दु० वृ०]
एष्वर्थेषु वर्तमानः करोती रुचादिर्भवति । सूचनं परापकारप्रयुक्तं परदोषाविष्करणम् । अवक्षेपणं तिरस्करणम् । सेवनम् अनुवर्तनम् । साहसं यदबुद्धिपूर्वकं करणम् । यत्नः सतो गुणान्तराधानम् । कथा व्याख्यानम् । उपयोगो धर्मादिप्रयोजनं द्रव्यस्य विनियोगः । तत्र सूचने - अयमिदमुपकुरुते, सूचयतीत्यर्थः । अवक्षेपणे – श्येनो