________________
परिशिष्टम् - १ (अ)
भुजाभ्यां कोऽप्यस्फोटयति किन्त्वेकेन भुजेनैव । वयन्तु आभ्यां विषमविलोचनगाण्डीविभ्याम् आजघ्ने । किम् आजघ्ने इत्याह - विषमविलोचनस्य वक्षः भुजा अर्थाद् गाण्डीविना, गाण्डीवी चाजघ्ने, अर्थाद् विषमविलोचनेनेति । अस्मिन् पक्षे कर्मण्येव प्रत्ययः । यद् वा अकर्मकविवक्षयैवात्मनेपदं विधाय पश्चात् कर्मविवक्षा, पच्यते मासानितिवत् । अस्मिन् पक्षे अस्य सूत्रस्यैव विषयः । यद् वा 'अस्य विषमविलोचनस्य भुजाभ्यां गाण्डीवी आजघ्ने' इति कर्मणि प्रत्ययः । वक्ष उद्दिश्येति साध्याहारान्वयः इति ब्रूमः ।। ४९२।२२।
४९२/२३. व्युद्भ्यां तपः
[दु० वृ०]
व्युद्भ्यां परस्तपती रुचादिर्भवति । वितपते, उत्तपते । स्खलति भासते वेत्यर्थः । वितपते पाणिम्, उत्तपते पाणिम् । सन्तापयतीत्यर्थः अत्राप्यकर्मकः स्वाङ्गकर्मकश्चेति कर्मान्तरे न भवति । आदित्यः पृथिवीं वितपति, उत्तपति सुवर्णं स्वर्णकारः ।। ४९२ । २३ । [दु० टी०]
४३५
व्युद्भ्याम्० । वितपते, उत्तपते । ज्वलति भासते वेत्यर्थः । वितपते उत्तपते पाणी, सन्तापयतीत्यर्थः । अकर्मकस्वाङ्गकर्मक इत्येव । आदित्यः पृथिवीं वितपति, उत्तपति सुवर्णं स्वर्णकारः । विलाययतीत्यर्थः ।। ४९२ । २३ ।
[वि० प० ]
व्युद्भ्याम् । वितपते, उत्तपते । ज्वलति भासते वेत्यर्थः । वितपते पाणिम् । सन्तापयतीत्यर्थः । अत्रापि अकर्मकः स्वाङ्गकर्मकश्चेति कर्मान्तरे न भवति । आदित्यः पृथिवीं वितपति, उत्तपति सुवर्णं स्वर्णकार ः || ४९२।२३ । ४९२/२४. तपःकर्मकः
[दु० बृ०]
तपः कर्म यस्य तपतेरिति विग्रहः । तपःकर्मकस्तपती रुचादिर्भवति । तप्यते तपस्तापसः । तत्र चकारात् तपेस्तपःकर्मकादिति यण् कर्तरि || ४९२ | २४ | [दु० टी०]
तपःकर्मकः । तपः कर्म यस्य तपेरिति । तप्यते तपस्तापसः || ४९२|२४| [वि० प० ]
तपः । तपः कर्म यस्य तपेरिति विग्रहः । तप्यते तपस्तापसः । तत्र चकारात् तपेस्तप:कर्मकादिति कर्तरि यण् ||४९२ | २४ |