________________
४३४
कातन्त्रव्याकरणम्
४९२/२२. आङो यमहनौ स्वाङ्गकर्मको च [दु० वृ०]
आङः परौ यमहनौ अकर्मको स्वाङ्गकर्मकौ च रुचादी भवतः । आयच्छते, आहते । "धुटि हन्तेः सार्वधातुके" (३।४।४७) इति नलोपः । स्वाङ्गकर्मकौ चआयच्छते पादम्, आहते उरः । अन्यस्मिन् कर्मणि न भवति । आयच्छति रज्जुम्, आहन्ति वृषलम् । कथम् 'आयच्छति पादं देवदत्तस्य, आहन्ति शिरो विष्णुमित्रस्य' ? सत्यम्, नेह पारिभाषिकम् ‘अद्रवं मूर्तिमत्' इत्यादि स्वाङ्गम्, अपि तु स्वस्य आत्मनोऽङ्गम् । अतः परस्याने कर्मणि न भवति, तत् पुनर्व्याख्यानादिति ।।४९२।२२।
[दु० टी०]
आ | आङो यमहनौ स्वाङ्गकर्मको चेति | आयच्छते, आहते । आयच्छते पादम्, आहते उरः । अन्यस्मिन् कर्मणि-आयच्छति रज्जुम्, आहन्ति वृषलम् । स्वाङ्गग्रहणं किम् ? छात्रो मित्रस्य पाणिम् आहन्ति । नात्र पारिभाषिकः स्वाङ्गशब्द: ‘अद्रवं मूर्तिमत् स्वाङ्गम्' इति ।।४९२।२२।
[वि० प०]
आङो यम० | आङ: परौ यमहनावकर्मको स्वाङ्गकर्मकौ च रुचादी भवतः इत्यर्थः । आयच्छते, आहते । "धुटि हन्तेः सार्वधातुके" (३।४।४७) इति नलोपः। स्वाङ्गकर्मकौ च - आयच्छते पादम्, आहते उरः । अन्यस्मिन् कर्मणि न भवति । आयच्छति रज्जुम्, आहन्ति वृषलम् । कथम् आयच्छति पादं देवदत्तस्य, आहन्ति शिरो देवदत्तस्येति ? सत्यम् । नेदं पारिभाषिकम् 'अद्रवं मूर्तिमद्' इत्यादि स्वाङ्गम् , अपि तु स्वस्य आत्मनोऽङ्गं स्वाङ्गम् । अतः परस्याने कर्मणि न भवतीति तत् पुनर्व्याख्यानादिति ।। ४९२।२२।
[क० च०]
आङः । वा न वर्तते कार्यिनिमित्तयोर्व्यतिक्रमनिर्देशात्, तयोर्वेत्यत्र वाग्रहणाद् वा । 'आयच्छते' इति दीर्धीभवतीत्यर्थः । आहते, आयातीत्यर्थः । व्याख्यानादिति । आचार्यपारम्पर्यादित्यर्थः । कथं भारवौ- 'गाण्डीवी कनकशिलानिभं भुजाभ्यामाजने विषमविलोचनस्य वक्षः' इत्यत्र पराङ्गकर्मण्यात्मनेपदमा ? सत्यम् । स्खलितमिति कुलचन्द्रः । आपेदे' इति भागवृत्तिकृत पठति । शरणदेवस्तु 'विषमविलोचनस्य भुजाभ्यां गाण्डीवी स्वं वक्ष आजघ्ने' इत्याह, तन्न, अर्थासङ्गतेः ।
___ अपरे तु 'विषमविलोचनस्य' इत्यनादरे षष्ठी, विषमविलोचनमनादृत्य तत्समीपे वा भुजाभ्यां वक्ष आजघ्ने आस्फोटितवानित्यर्थः । इदमपि न चारुतरम्, न हि