________________
परिशिष्टम्-१ (अ)
इत्यत्र चातुर्वयादिवत् स्वार्थे यण् ततश्च एकमित्यर्थे सति कर्तृविशेषणत्वेन क्रियाविशेषणत्वेन वा व्याख्येयम् । अनर्घराघवे तु कर्मव्यतीहारो विवक्षित इति महान्तः। रक्षांसीत्यत्र इतिशब्दः षष्ठ्यर्थे ततश्च 'रक्षांसि सन्ति' इत्यस्य सम्बन्धश्रवणवन्तो वयम् इत्यर्थः । शङ्कराचार्यप्रयोगे तु समो निमित्तत्वेऽपि यद् व्यतिक्रमं निर्दिशति, तत् क्वचित् समोऽभावोऽपि अकर्मकश्चेत्यत्र चकारात् सकर्मकेभ्योऽपि, अयं तु सिद्धान्तो देयः । अन्यत्रापि रुचादेराकृतिगणत्वाद् वा । भारवौ तु हितादिति पञ्चमी, हितजनादित्यर्थः, न तु हितानिति द्वितीयाबहुवचनम् । हितमिति पाठे तु क्रियाविशेषणम् अधिपशब्दस्य विशेषणं वा । वस्तुतो हि वररुच्यादिमते नास्ति अकर्मकाधिकारः ।।४९२।२०।
४९२/२१. उपसर्गादस्यत्यूही वा [दु० वृ०]
उपसर्गादस्यत्यूहौ रुचादी भवतो वा । निरस्यते, निरस्यति । समूहते, समूहति | अकर्मक इत्येव । निरस्यति शत्रून्, समूहति पदार्थान् ।।४९२।२१।
[दु० टी०]
उपसर्गात् - निरस्यति, निरस्यते । समूहति, समूहते । अकर्मक इत्येव – निरस्यति शत्रून्, समूहति पदार्थान् ।।४९२।२१।
[वि० प०]
उपसर्गादस्यत्यूही वा । निरस्यन्ते, निरस्यति । समूहते, समूहति । अकर्मक इत्येव । निरस्यति शत्रून्, समूहति पदार्थान् ।।४९२।२१।
[क० च०]
उप० । अस्यतेरात्मनेपदार्थम् ऊहतेश्च परस्मैपदार्थं वा वचनम् – समूहति पदार्थमिति । ननु कथमत्र परस्मैपदम् – ऊहतेर्नित्यमात्मनेपदित्वात् प्रत्युदाहरणेऽप्यात्मनेपदस्यैव योग्यत्वात् ? सत्यम्, 'समूहते पदार्थान्' इति आत्मनेपदेनैव प्रत्युदाहरणम्, प्रत्युदाहरणे परस्मैपदपाठस्तु अशुद्ध एव । अतः कुलचन्द्रोऽपि सकर्मकयोस्तु यथाप्राप्तमित्युक्तवान् । वस्तुतो वररुच्यादिमतेऽकर्मकाधिकारो नास्त्येव, अतः सकर्मकऽपि विकल्प इति । अकर्मकाधिकारेऽपि चकारात् सकर्मकऽपि विकल्पः । अत एव 'अनुक्तप्यूहति पण्डितो जनः' इति भारविः। अत्रापिशब्दस्योपसर्गाभावादायिलोपे परस्मैपदमिति कथं 'सन्ततं तिमिरमिन्दुरुदासे, दिशः समूहन्निव दिग्विकीर्णम्' इति ? सत्यम्, विस्मृतलक्षणत्वादिति कुलचन्द्रः। अन्ये तु ‘पच्यते मासान्' इतिवत् पूर्वं कर्माविवक्षयेत्याहुः । अस्मन्मते चकाराद् इत्युक्त एव सिद्धान्तः ।। ४९२।२१।