________________
४३२
कातन्त्रयाकरणम्
[दु० टी०]
समो गम० । गम्ल-सङ्गच्छते । ऋच्छ-समृच्छते । प्रच्छ-सम्पृच्छते । स्वृ-संस्वरते । श्रु-संशृणुते । विद ज्ञाने-संवित्ते । विद्लू उभयपदी-संविन्दति, संविन्दते । अर्तीति भ्वादौ ऋ प्रापणे च, ऋ सृ गताविति जुहोत्यादौ । नात्र साहचर्यम् - समियते, समारत । दृशिर्-संपश्यते । अकर्मक इत्येव – संगच्छति सुहृदम् ।।४९२।२०।
[वि० प०]
समो० । संगच्छते, समृच्छते, संपृच्छते । प्रच्छेह्यादित्वात् सम्प्रसारणम् । संस्वरते, संशृणुते । "श्रुवः १ च" (३।२।३५)। वेत्तीति निर्देशाद् 'विद ज्ञाने' (२।२७) - संवित्ते । अर्तीति निर्देशाद्' प्रापणे च' (१।२७५) इतिभ्वादौ, ' स गतौ' (२।७४) इति जुहोत्यादौ, द्वयोरपि ग्रहणम् अविशेषात् । समृच्छते, अर्तेः- समियते । "अतिपिपयोश्च' (३।३।२५) इत्यभ्यासस्येकारे कृते "अभ्यासस्यासवर्णे" (३।४।५६) इतीयादेशः । सम्पश्यते इति दृशेः पश्यः। अकर्मक इत्येव-संगच्छति सुहृदं प्रियः ।। ४९२।२०।
[क० च०]
समो गम्० । अविशेषादिति । यद्यपि अलोपाद् आदादिकस्यैव ग्रहणं योग्यम्, तथापि रुचादेराकृतिगणत्वाद् भौवादिकस्यापि ग्रहणमिति । वस्तुतस्तु तिपो धातुस्वरूपविधानात् कर्तरि विधीयमानत्वं नास्ति । अथ "कर्तरि कृतः" (४।६।४६) इति सामान्यवचनाद् भविष्यति चेत्, न । कर्तुः प्रतीयमानत्वाभावात् । ततश्च कर्तरि विहितसार्वधातुकत्वाभावादेव प्राप्तिास्ति कुतस्तल्लोपाभावाद् आदादिकत्वनिश्चयः । तर्हि कथं भवतिरत्र प्राप्तौ सकर्मकः । वनतितनोतीत्यादौ च विकरणो दृश्यते ? सत्यम् । "भवतेरः" (३।३।२२) इति ज्ञापकात् क्वचिद् भवत्यपि चेद् अत्रापि स्यात् ? नैवम् । ज्ञापकज्ञापितविधेरनित्यत्वात् । अकर्मका इत्येवेति । तर्हि कथं सकर्मक आत्मनेपदम् - 'न सम्पपृच्छे गमनाय सत्वरा सखीजनं संददृशे न चापरा' इति व्यासवाक्ये। अथ 'सन्ददृशे सदृशं रमणम्' इत्यत्र अनर्घराघवे । 'द्रक्ष्येऽहं परमेश्वरि ! त्रिपथगे ! भागीरथि ! स्वं वपुः' इति वाल्मीके
स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः। सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः॥
इति भारवी ? सत्यम् । व्यासवाक्ये 'सखीजनात्' इति पाठः कर्तव्यः, ततश्च ल्यब्लोपे पञ्चमी । सखीजनं प्राप्येत्यर्थ इति शरणदेवः। वामनचरिते तु- 'तां प्राप्य' इत्यध्याहार्यम्' ततश्च रमणमित्यधिगम्य सदृशं योग्यं यथा स्यात् तथा 'संददृशे' इति व्याख्यातव्यम् । तच्चैक्यम्