________________
४३१
परिशिष्टम् - १ (अ)
४३१ [दु० टी०]
वा लिप्सा० । भिक्षुको धार्मिकमुपतिष्ठते उपतिष्ठति वा । लिप्सायां गम्यमानायाम्, लिप्साविषये उपगमनार्थो धार्मिकमुपतिष्ठते तिष्ठति वा भिक्षालाभायेति ।।४९२।१८।
[वि०प०]
वा लिप्सा० । भिक्षुको धार्मिकमुपतिष्ठते उपतिष्ठति वा । भिक्षामहं लभेयमिति कृत्वा धार्मिकमुपगच्छतीत्यर्थः ।। ४९२।१८।
४९२/१९. अकर्मकश्च [दु० वृ०]
उपात् परोऽकर्मकस्तिष्ठती रुचादिर्भवति । वेति न वर्तते, 'उभयोर्विभाषयोर्मध्ये यो विधिः स नित्यः' इति वचनात् । भोजनकाल उपतिष्ठते । अन्यत्र - राजानमुपतिष्ठति । स्थेति निवृत्तम् ।। ४९२।१९।
[दु० टी०]
अकर्मकश्च । इहापि उपात् स्था इत्येव । भोजनकाल उपतिष्ठते, अन्यत्रराजानमुपतिष्ठति ।। ४९२।१९।
[वि० प०]
अकर्मक० । भोजनकाल उपतिष्ठते । अन्यत्र राजानमुपतिष्ठति । स्थेति निवृत्तम् ।। ४९२।१९।
[क० च०]
अकर्मक० । वा न वर्तते, उत्तरत्र वा-ग्रहणात् । उत्तरत्र कार्य्यिणां गमादीनां पाठादिति चकारस्य तूत्तरसूत्रे प्रयोजनं वक्ष्यति ।।४९२।१९।
४९२/२०. समो गमृच्छिप्रच्छिस्वश्रुवेत्त्यर्तिदृशः [दु० वृ०]
समः परे अकर्मका एते धातवो रुचादयो भवन्ति । सङ्गच्छते, समृच्छते, सम्पृच्छते । ग्रह्यादित्वात् सम्प्रसारणम् । संस्वरते, संशृणुते । (श्रुवः शृच-३।२।३५ - श्रादेशः)। वेत्तीति निर्देशाद् 'विद ज्ञाने' (२।२७)- संवित्ते । अर्तीति निर्देशात् ' प्रापणे च' (१।२७५) इति भ्वादौ, ' सृ गतौ' (२।७४) इति जुहोत्यादौ, द्वयोरपि ग्रहणम् अविशेषात् । समृच्छते (अत्तेच्छः ३।६।७७ - इति ऋच्छादेशः - समियते । ["अतिपिपोश्च" ३।३।२५ इति इकारः, “अभ्यासस्यासवर्णे" ३।४।५६ - इति इयादेश:], सम्पश्यते ["दृशेः पश्यः" ३।६।७६ इति पश्यादेशः] | अकर्मका इत्येवसङ्गच्छति सुहृदं प्रियः ।। ४९२ ।२०।