________________
४३०
कातन्त्रव्याकरणम्
[वि०प०] ___ उपान्मन्त्रेण । मन्त्री गायत्र्यादिः, स चेदुपतिष्ठतीत्यस्य करणम् । गायत्र्या सूर्यमुपतिष्ठते । मन्त्रेणेति तृतीयानिर्देशः किम् ? गायत्रीमुपतिष्ठति । अकर्मकश्चेति यावद् उपादिति वर्तते ।। ४९२।१६।
४९२/१७. पथ्याराधनयोश्च [दु० वृ०]
उपात् परस्तिष्ठती रुचादिर्भवति पथि कर्तरि आराधने च गम्यमानेऽर्थे । अयं पन्थाः सुघ्नमुपतिष्ठते । सुझं नाम ग्रामं प्रयातीत्यर्थः । आदित्यमुपतिष्ठते, पूजादिना आराधयतीत्यर्थः । [सङ्गत्तकरणमैत्रीकरणयोरित्यपि न वक्तव्यम्, आराधनेनैव सिद्धत्वात् । रथिकानुपतिष्ठते, सङ्गतकरणेन रथिकानाराधयतीत्यर्थः । महामात्रानुपतिष्ठते, मैत्रीकरणेन महामात्रानाराधयतीत्यर्थः । सङ्गतकरणमुपश्लेषः, मैत्रीकरणं चान्तरेणापि उपश्लेषमिति भेदः ।।४९२।१७।
[दु० टी०]
पथ्या० । पथि कर्तरि आराधने च वर्तमानात् तिष्ठतेरित्यर्थः । अयं पन्थाः स्रुघ्नमुपतिष्ठते, प्रयातीत्यर्थः । आदित्यमुपतिष्ठते, पूजादिना आराधयतीत्यर्थः । रथिकानुपतिष्ठते । सङ्गतकरणेन रथिकानाराधयतीत्यर्थः। महामात्रानुपतिष्ठते । मैत्रीकरणेन महामात्रानाराधयतीत्यर्थः ।।४९२।१७।
[वि० प०]
पथ्या० । पति कर्तरि आराधने च गम्यमाने इत्यर्थः । अयं पन्थाः सुघ्नमुपतिष्ठते, प्रयातीत्यर्थः । आदित्यमुपतिष्ठते, पूजादिना आराधयतीत्यर्थः। सङ्गतकरणमैत्रीकरणयोश्चेति न वक्तव्यम्, आराधनेनैव सिद्धत्वात् । पथिकानुपतिष्ठते । सङ्गतकरणेन पथिकानाराधयतीत्यर्थः । महामात्रानुपतिष्ठते । मैत्रीकरणेन महामात्रानाराधयतीत्यर्थः । सङ्गत्तकरणम् उपश्लेषो मैत्रीकरणं चान्तरेणाप्युपश्लेषमिति भेदः ।।४९२।१७।
[क० च०]
पथ्या० । एकापि सप्तमी अर्थवशाद् द्विधा भिद्यते अभिधेये विषये चेत्याह - कर्तरीति || ४९२।१७।
४९२/१८. वा लिप्साया [दु० वृ०]
उपात् परस्तिष्ठती रुचादिर्भवति वा लिप्सायां गम्यमानायाम् । भिक्षुको धार्मिकमुपतिष्ठते उपतिष्ठति वा । भिक्षामहं लभेयमिति धार्मिकम् उपगच्छतीत्यर्थः ।। ४९२।१८।