________________
परिशिष्टम् - १ (अ)
४२९
[दु० टी०]
समव० । सन्तिष्ठते, अवतिष्ठते, प्रतिष्ठते, वितिष्ठते । अप्रतिज्ञाद्यर्थं वचनम् ।। ४९२ । १४ ।
४९२/१५. उदोऽनूर्ध्वचेष्टायाम्
[दु० टी०]
अनूर्ध्वपरिस्पन्दलक्षणव्यापारे वर्तमानस्तिष्ठती रुचादिर्भवति मुक्तावुत्तिष्ठते साधुः, संग्रामे उत्तिष्ठते वीरः । उद्यमं करोतीत्यर्थः । अनूर्ध्वेति किम् ? आसनादुत्तिष्ठति अतिथिः। चेष्टायामिति किम् ? ग्रामाच्छतमुत्तिष्ठति । उत्पद्यते इत्यर्थः । परिस्पन्दनं हि चेष्टोच्यते ||४९२।१५। [दु० टी०]
उदोऽनू० । ऊर्ध्वचेष्टायां न वर्तते धातुश्चेत् । मुक्तावुत्तिष्ठते, मुक्त्यर्थं चेष्टते इत्यर्थः । अनूर्ध्वेति किम् ? आसनादुत्तिष्ठति । चेष्टायाम् इति किम् ? ग्रामाच्छतमुत्तिष्ठति, शतमुत्पद्यते इत्यर्थः । कथम् उत्तिष्ठते सेना, सम्भवतीति गम्यते । सैनिकानामियं चेष्टा न सेनाया आत्मीयो व्यापार इति ॥ ४९२।१५।
[वि० प०]
उदोऽनू० । ऊर्ध्वचेष्टायामिति । ऊर्ध्वपरिस्पन्दनलक्षणे व्यापारे धातुश्चेन्न वर्तते इति विमुक्तावुत्तिष्ठते । संग्रामे उत्तिष्ठते, तत्रोद्यमं करोतीत्यर्थः । अनूर्ध्वेति किम् ? आसनादुत्तिष्ठति । चेष्टायामिति किम् ? ग्रामाच्छतमुत्तिष्ठति, उत्पद्यते इत्यर्थः । परिस्पन्दनं हि चेष्टोच्यते ||४९२|१५|
[क० च०]
उदो० | अथ 'उत्तिष्ठते वासुकिनापि दष्टः' इत्यत्रोर्ध्वचेष्टायां कथमात्मनेपदम् ? नैवम्, नात्रोर्ध्वगमनम्, किन्तु प्रबोधनमिति || ४९२ । १५ । ४९२/१६. उपान्मन्त्रेण
[दु० वृ०]
उपात् परो मन्त्रकरणकस्तिष्ठती रुचादिर्भवति । मन्त्रो गायत्र्यादिः । उपतिष्ठतीत्यर्थस्य करणम् । गायत्र्या सूर्यमुपतिष्ठते । मन्त्रेणेति तृतीयानिर्देशः किम् ? गायत्रीमुपतिष्ठति । अकर्मकश्चेति यावदुपादिति वर्तते ।। ४९२ । १६ ।
|
[दु० टी०]
उपान्मन्त्रेण । मन्त्री गायत्र्यादिः । उपतिष्ठतीत्यर्थस्य करणं सावित्र्योपतिष्ठते । तृतीया किम् ? सावित्रीमुपतिष्ठति ॥ ४९२।१६।