________________
४२८
कातन्त्रव्याकरणम् वर्तमानस्तिष्ठती रुचादिर्भवति । 'नित्यं शब्दमातिष्ठते, अभ्युपगच्छतीत्यर्थः । त्वयि तिष्ठते विवादः, निश्चिनोतीत्यर्थः । तिष्ठते कन्या छात्रेभ्यः, स्थित्वा स्वाभिप्रायं प्रकाशयतीत्यर्थः ।।४९२।१३।
[दु० टी०]
प्रतिज्ञा० । 'अभ्युपगमः प्रतिज्ञा, संशयितस्य वस्तुनो निश्चयः निर्णयः, अभिप्रायप्रकटनं प्रकाशनम्' एषु गम्यमानेष्विति । नित्यं शब्दमातिष्ठते, त्वयि तिष्ठते विवादः, तिष्ठते कन्या छात्रेभ्यः । एवं छात्रैः सह तिष्ठति, अवस्थानं करोति येनाभिप्रायस्तस्या ज्ञायते इति ।।४९२।१३।।
[वि० प०]
प्रतिज्ञा० । प्रतिज्ञा अभ्युपगमः, अङ्गीकार इत्यर्थः । संशयितस्य वस्तुनो निश्चयो निर्णयः, स्वाभिप्रायप्रकटनं प्रकाशनम् । नित्यं शब्दमातिष्ठते, त्वयि तिष्ठते विवादः, तिष्ठते कन्याच्छात्रेभ्यः। तथा तिष्ठत्यवस्थानं करोति येनाभिप्रायं तस्या ज्ञायते इत्यर्थः ।।४९२।१३।
[क० च०]
प्रतिज्ञा० । पातूनामनेकार्थत्वात् प्रतिज्ञादयोऽस्तिष्ठतिनाप्यभिधीयन्ते, तत्र च आङ्पूर्वस्यैव स्वभावात् प्रतिज्ञायां वृत्तिः । अत एव 'स्था प्रतिज्ञाने' इति वार्त्तिकम् । निश्चयो निर्णय इति । अत्र लक्षणया निश्चयाय मतिर्निश्चय उच्यते । तथा च,
जहातु नैनं कथमसिद्धिः संशय्य कर्णादिषु तिष्ठते यः। __असाधुयोगा हि जयान्तरायाः प्रमायिनीनां विपदां पदानि॥ इति भारविः।
अयमर्वः - एनं सुयोधनम् अर्थसिद्धिः कथन्न जहातु यः सुयोधनः संशय्य विवादहेतौ वस्तुनि संशयितो भूत्वा कर्णशकुनिप्रभृतिषु निर्णेतृत्वेनाभिमतेषु स्वपक्षान्तरं परित्यज्य तिष्ठते, अन्यपक्षं परित्यज्य तैरुपदर्शितपक्षस्यैव समाश्रयणादिति न्यासकृता व्याख्यातम् । पाणिनिस्तु "स्वेयाख्यायामात्मनेपदम्" (अ० १।३।२३) इत्याचष्टे । विवादपदनिर्णेता स्वेय इति रूढिः। [तथा भट्टिकाव्येऽपि 'त्वयि नस्तिष्ठते प्रीतिस्तुभ्यं तिष्ठामहे वयम्' इत्यत्र प्रीतिरस्ति न वेति संशयेनान्यसन्देहः स्थेयः किन्तु प्रीतिरस्त्येवेति जयमङ्गला ] ||४९२।१३।
४९२।१४. समवप्रविभ्यः [दु० वृ०]
एभ्य उपसर्गेभ्यः परस्तिष्ठती रुचादिर्भवति । अप्रतिज्ञाद्यर्थमिदम् । सन्तिष्ठते, अवतिष्ठते, प्रतिष्ठते, वितिष्ठते ॥४९२।१४।
१. कुत्रचिद् वृत्तौ नित्यं शब्दमातिष्ठन्ते मीमांसकाः। नित्यं शब्दं प्रतिजानते इत्यर्थः, इत्यादि पाठभेदो दृश्यते ।