________________
४२७
परिशिष्टम् - १ (अ)
४९२/१२. शपथे शप [दु० वृ०]
शपथो मिथ्यानिरसनम्, तस्मिन् गम्यमाने शप रुचादिर्भवति | छात्राय शपते कुमारी । शपथ इति किम् ? शपति भृत्यं राजा, आक्रोशतीत्यर्थः ।।४९२।१२।
[दु० टी०]
शप० । छात्राय शपते, उपलम्भयति अवगमयति मिथ्या निरस्यतीत्यर्थः । प्रेमजिज्ञासमानाभ्यस्ताभ्यः समशेरत कामिनः इति छात्रस्य शरीरं स्पृशामीत्येवं या शपथं करोति सैवमुच्यते इत्येके । उपलम्भनं प्रकाशनमित्यन्ये । अन्यत्र छात्रं शपति आक्रोशतीत्यर्थः । ४९२।१२।
[वि० प०]
शपथे० । शपथो मिथ्यानिरसनम् । छात्राय शपते कुमारी । सम्भाव्यमानव्यलीका कुमारी छात्रस्य विपरीतज्ञाननिवृत्तये मिथ्या निरस्यतीत्यर्थः । अथवा छात्रस्य शरीरं स्पृशामीत्येवं या शपथं करोति सैवमुच्यते । शपथ इति किम् ? छात्रं शपति, आक्रोशतीत्यर्थः ।।४९२।१२।
[क० च०]
शप० । वाचा शरीरस्पर्शनं शपथ इति पाणिनिमतमवलम्ब्याह - अथवेति, सैवमुच्यते इत्यत्रैवंशब्देन कुमारी शपते इति वाक्यसमुदायो नोच्यते, अन्यथा पङ्क्तिरियं न संगच्छते । ननु माघे - "शपमानाय न चेदिभूजुजे" इत्याक्रोशने कथम् आनश्प्रत्ययः ? सत्यम्, "शक्तिवयस्ताच्छील्ये" (४।४।९) इति शानङिति न दोषः । वस्तुतस्तु उभयपदित्वादाक्रोशनेऽप्यात्मनेपदं स्यादेव । सूत्रं तु शपथेऽत्रात्मनेपदमेव यथा स्यात् । तर्हि कथं 'सख्यः! शपामि यदि किञ्चिदपि स्मरामि' इति भारवौ । 'सुरतैः शपेयम्' इति च घटकपरे च परस्मैपदमिति, नियमासामर्थ्यादात्मनेपदमेव स्यात् ? सत्यम्, चक्षिङो व्यनुबन्धकरणादेकानुबन्धकरणेऽनित्यमपीति केचित् । तन्न, शपधातोरप्युदात्तानुदात्तत्वेन ट्यनुबन्धकत्वात तस्माद् गम्यते प्रत्ययनियमोऽयम् । तन्मतेऽपि सिद्धमिदम् । तथाहि शपथ एवात्मनेपदं नान्यार्थे इति नियमेन शपथे परस्मैपदमपि चेत् तन्मते 'शपमानाय' इति माघप्रयोगे आक्रोशने कथमात्मनेपदमिति चेत् शक्त्यादिवचनात् शानङिति पूर्वसिद्धान्त एवास्ताम् ['प्रजेति त्वां शशाप सा' इति रघुश्लोके शपथार्थकत्वाभावान्नात्मनेपदम् ] || ४९२।१२।
४९२/१३. प्रतिज्ञानिर्णयप्रकाशनेषु स्थाः [दु० वृ०] प्रतिज्ञा अभ्युपगमः, निर्णयो निश्चयः, प्रकाशः स्वाभिप्रायप्रकटनम् । एष्वर्थेषु