________________
४२६
कातन्त्रव्याकरणम्
[क० च०]
गत्यनु० । यदा गतिविषयेऽनुकरणं भवति तदा हृञ्धातू रुचादिर्भवतीत्यर्थः । सादृश्यमात्रेऽपि दृश्यते प्रयोगः । 'जलघिमनुहरते सरः' इति भाषावृत्तिः ।। ४९२।१०।
४९२/११. आशिषि नाथ [दु० वृ०]
आशिष्येव नाथती रुचादिर्भवति । सर्पिषो नाथते । सर्पिर्मे भूयादित्याशास्ते । आशिषीति किम् ? माणवकमनुनाथति, याचते इत्यर्थः । आत्मनेपदिषु पाठात् सिद्धे निममोऽयम्-आशिष्येव नाथतेरात्मनेपदमिति | ["यत्तु 'नायसे किमु पतिं न भूभृतः' इति किरातार्जुनीये। “दीनस्त्वामनुनाथते कुचयुगं पत्रावृतं मा कुरु" इति प्रयोगौ साधू इति काव्यप्रकाशकारस्तदिदं चिन्त्यते । “समर्पनाशिषोः" (३।१।१९) इत्यत्र वृत्तौ इष्टाशंसनमपि प्रार्थनमेवेत्युक्तम्, तदा प्रार्थनायामपि आशंसायामेवात्मनेपदम् । अन्यत्र परस्मैपदमेवेति नियमः" इति पाठान्तरम्] ।।४९२।११।
[दु० टी०]
आशिषि० | आशिष्येव नाथतिरिति नियमार्थो गणपाठः। सर्पिषो नाथते । सर्पिर्मे भूयाद् इत्याशास्ते इत्यर्थः । आशिषीति किम् ? माणवकम् उपनाति, याचते इत्यः ॥४९२।११।
[वि० प०]
आशि० । नाथतेरात्मनेपदिनोऽपीह पाठो नियमार्थः। आशिष्येव नाथते इति । सर्पिषो नाथते । सर्पिर्मे भूयाद् इत्याशास्ते इत्यर्थः । आशिषीति किम् ? माणवकम् उपनाथति, याचते इत्यर्थः । ४९२।११।
[क० च०]
आशिषि० । उपतापैश्वर्ययोरपि नाथधातोर्यदनुदात्तानुबन्धकरणं तत्तु रुचादेश्च व्यञ्जनादेरिति युप्रत्ययार्थम् । कथं याचनायाम् ‘नाथसे किमु पतिं न भूभृतः' इति भारविः । तथा 'आनाथते मुखरुचिम्, संनायते' इति च काव्यान्तरम् ? सत्यम्, अपप्रयोग इति काव्यप्रकाशः। 'नाथसे' इति पठन्त्येके । अन्ये तु आशिष्यात्मनेपदमेव, अन्यत्र तूभयपदमेवेति नियममाहुः । वस्तुतस्तु याचनमप्याशंसनमिति चन्द्रगोमी। अस्माभिरप्ययमर्थः "समर्थनाशिषोश्च" (३।१।१९) इत्यत्राङ्गीकृतः । यत्तु पञ्ज्याम् आशिषीति किम् ? माणवकमुपनाथतीति प्रत्युदाहरणे ‘याचते' इत्युक्तम्, तत्र याचनम् (अभ्यर्थनम्) अनुनय इति बोध्यम् ।।४९२।११।