________________
४२५
परिशिष्टम्-१ (अ)
४९२/९. अपस्किरः [दु० १०]
अपपूर्वात् किरतेस्तौदादिकाद् धातोः प्राक् सुडिति । 'अपस्किरः' इति तिब्लोपे निर्देशः । ससुट् कृधातू रुचादिर्भवति । अपस्किरते वृषभो हृष्टः । अपस्किरते कुक्कुटो भक्षार्थी । अपस्किरते श्वा निवासार्थी । सर्वत्रापाच्चतुष्पाच्छकुनिषु हृष्टभक्षनिवासार्थिष्वालेखने सुडागमः । ससुडिति किम् ? अपकिरति ।।४९२।९।
[दु० टी०]
अपस्किर० । अदन्तोऽयमेकदेशोऽनुक्रियते, तिब्लोपं कृत्वा वा निर्देशः । अपस्किरते । अपाच्चतुष्पाच्छकुनिषु हृष्टभक्षनिवासार्थिषु सुट् । सुट् किमर्थम् ? अपकिरति || ४९२।९।
[वि० प०]
अपस्किरः । अपपूर्वस्य 'कृ विक्षेपे' (५।२१) इति तौदादादिकस्य तिलोपं कृत्वा निर्देशः । अपस्किरते वृषभो हृष्टः । अपस्किरते कुक्कुटो भक्षार्थी । अपस्किरते श्वा निवासार्थी । अपाच्चतुष्पाच्छकुनिषु हृष्टभक्षनिवासार्थिषु सुडागमो दृश्यते । सुडागमनिर्देशः किम् ? अपकिरति तृणानि ।। ४९२।९।
४९२/१०. गत्यनुकरणे हञ् [दु० वृ०]
गत्यनुकरणं सादृश्यम् । तस्मिन्नर्थेऽभिधीयमाने हञ् रुचादिर्भवति । अश्वाः पैतृकमनुहरन्ते, गावो मातृकमनुहरन्ते । पितृवदश्वा गच्छन्ति, मातृवद् गावो गच्छन्तीत्यर्थः । ऋकारान्तादागतेऽर्थे क्रीतादित्वादिकण आदिलोपश्च । गतिग्रहणं किम् ? रूपादीनामनुकरणे न स्यात् । पितरमनुहरन्ति रूपेण पुत्राः ।।४९२।१०।
[दु० टी०]
गत्यनु० । पैतृकमनुहरन्ते अश्वाः, मातृकं गावोऽनुहरन्ते । ऋकारान्तादागतेऽर्थे इकणं व्युत्पादयन्ति । गतिग्रहणं किमर्थम् ? पितरमनुहरन्ति रूपादिनेति भावः ।।४९२।१०।
(वि० प०)
गत्यनु० । पैतृकमनुहरन्ते अश्वाः , मातृकमनुहरन्ते गावः । पितुरागतं पैतृकम्, मातुरागतं मातृकम् । ऋकारान्तादागतेऽर्थे क्रीतादित्वादिकण, आदिलोपो दृश्यते । पितृवन्मातृवच्च अश्वा गावश्च गच्छन्तीत्यर्थः । गतिग्रहणं किम् ? रूपादीनामनुकरणे मा भूत् - रूपेण पितरमनुहरन्ति पुत्राः ।।४९२।१०।