________________
४२४
कातवव्याकरणम्
४९२/७. अनुपरिभ्यां च क्री [दु० वृ०]
अनुपरिभ्यामाङश्च परः क्रीड् रुचादिर्भवति । अनुक्रीडते, परिक्रीडते, आक्रीडते । 'क्रीडते नागराजः' इति प्रयोगदर्शनादनुपसर्गादपि क्रीडतेरात्मनेपदं चकारादिति बोद्धव्यम् ||४९२१७।
[दु० टी०]
अनुपरि० । चकार आङोऽनुकर्षणार्थः । अनुक्रीडते, परिक्रीडते, आक्रीडते । माणवकमनुक्रीडतीति । माणवकेन सह क्रीडतीत्यर्थः । कर्मप्रवचनीयोऽयमनुर्बहिरङ्गः अनुपरिभ्यामाङा च युक्तः क्रीडिति ।।४९२।७।
[वि० प०]
अनुपरि० । अनुपरिभ्यां च क्रीड्, चकारादाङश्चेति । अनुक्रीडते, परिक्रीडते, आक्रीडते । इहापि पूर्ववद् उपसर्गग्रहणाद् बालकमनुक्रीडतीत्यत्र न भवति । सहार्थे कर्मप्रवचनीयोऽयमनुशब्दः । बालकेन सह क्रीडतीत्यर्थः ।।४९२।७।
[क० च०]
अनुपरि० । कथं 'शल्लक्यामस्थिभागस्थलबलरहितः क्रीडते नागराजः' इति, सत्यम् । अपप्रयोग इति महान्तः । चकारादिति शरणदेवः ।।४९२।७।
४९२/८. समोऽकूजने [दु० वृ०]
सम उपसर्गात् परः क्रीडती रुचादिर्भवति । अकूजने - अव्यक्तशब्दकरणभिन्नेऽर्थे गम्यमाने । संक्रीडन्ते कुमाराः । अकूजन इति किम् ? संक्रीडति शकटः । अव्यक्तशब्दं करोति ।।४९२।८।
[दु० टी०]
समो० । क्रीडतीत्येव । संक्रीडन्ते कुमाराः । अकूजन इति किम् ? संक्रीडन्ति शकटानि, अव्यक्तशब्दं कुर्वन्तीत्यर्थः । शिक्षेर्जिज्ञासायामिति न वक्तव्यम् - विद्यासु शिक्षते, धनुषि शिक्षते । 'शिक्ष विद्योपादाने' (१।४२८) इत्यात्मनेपदिना सिद्धम्, विद्योपादानस्य ज्ञातुमिच्छामन्तरेणासम्भवात् ।।४९२।८।
[वि० प०]
समो० । कूजनम् अव्यक्तशब्दकरणम्, ततोऽन्यदकूजनम्, संक्रीडन्ते कुमाराः । अकूजन इति किम् ? संक्रीडति शकट: । अव्यक्तशब्दं करोतीत्यर्थः ।। ४९२।८।