________________
परिशिष्टम् - १ (अ)
४९२/५. गमिन् क्षान्तौ
४२३
[दु० वृ०]
पूर्वसूत्राद् आङ् अनुवर्तते । आङः परो गमिरिनन्तो रुचादिर्भवति क्षान्तौ प्रतीक्षायां गम्यमानायाम् | आगमयस्व तावत् । मानुबन्धत्वाद् ह्रस्वः । कञ्चित् कालं प्रतीक्षस्व इत्यर्थः ।। ४९२ ।५।
[दु० टी० ]
गमिन्० । आङ् इत्यनुवर्तते । आगमयस्व मा त्वरिष्ठाः । सहस्व कञ्चित् कालमित्यर्थः। ननु चेन्ग्रहणं किमर्थम्, कालहरणन्चागमिरिनन्त एव वर्तते ? सत्यम्, सुखप्रतिपत्त्यर्थमेव । नात्र परापकारमर्षणादि . क्षमा विधीयते || ४९२ ।५ ।
[वि० प० ]
गमिन्० । आङिति वर्तते । गमिन्निति इनन्तो निर्देशः, मानुबन्धत्वाद् ह्रस्वः । क्षान्तिरिह प्रतीक्षाकालहरणमुच्यते । आगमयस्व तावत् कञ्चित् कालं क्षमस्व प्रतीक्षस्वेत्यर्थः || ४९२।५।
[क० च०]
गमिन्० | क्षान्ताविति किम् ? आगमयति माम् || ४९२ |५| ४९२/६. नुप्रच्छौ
[दु० बृ०]
आङः परौ नु-प्रच्छौ रुचादी भवतः । आनुते शृगालः । उत्कण्ठापूर्वकं शब्दं करोतीत्यर्थः । आपृच्छते गुरून् शिष्यः । आराधयतीत्यर्थः ।। ४९२ । ६ ।
[दु० टी०]
नुप्र० । आङ् इत्येव । आनुते शृगालः, आपृच्छते गुरुम् । नौतिरत्रोत्कण्ठापूर्वके शब्दने वर्तते ।। ४९२।६।
[वि० प० ]
प्र० । आङित्येव वर्तते । आनुते शृगालः । उत्कण्ठापूर्वकं शब्दं करोतीत्यर्थः । आपृच्छते गुरून्, आराधयतीत्यर्थः ।। ४९२ । ६ ।
[क० च०]
नुप्र० । असम्भवात् क्षान्तिरिह नानुवर्तते । आमन्त्रित इत्यर्थः । आङः प्रच्छि: कुशलप्रश्न इति कुलचन्द्रः । आमन्त्रण इति प्राञ्चः । ' आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलम् ' ( मेघ० - १।१२ ) इति मेघदूतः || ४९२ । ६ ।