________________
४२२
कातन्त्रव्याकरणम्
[वि०प०]
विपरा० । विजयते, पराजयते । जयतीत्यर्थः । इहापि पूर्ववद् उपसर्गयोरेव ग्रहणाद् 'वनं बहुवि जयति, सेना परा जयति' इत्यत्र भवति । परा उत्कृष्टा इत्यर्थः । अथवा विपराभ्यामिति विशेषणे तृतीया । विपराभ्यां विशिष्टो जयतिरित्यर्थः । विशेषणं च धातोरुपसर्ग एव युज्यते ।।४९२।३।
[क० च०]
विप० । विपराभ्यामिति पञ्चमी । अथवेति पक्षान्तरम् । विशिष्टत्वं चात्रान्तरङ्गसम्बन्धः । वस्तुतस्तु एकस्मिन्नव्ययगणे पठितयोरेवात्र ग्रहणम् । अत एव टीकायामपि साहचर्यादित्युक्तम् । यथा 'रामलक्ष्मणौ' इत्युक्ते भ्रात्रोर्दाशरथ्योरेव ग्रहणम् ।।४९२।३।
४९२/४. आडो दाज अनात्मप्रसारणे [दु० वृ०]
आङ उपसर्गात् परो ददाती रुचादिर्भवति । अनात्मप्रसारणे गम्यमाने-धनमादत्ते, विद्यामादत्ते । अनात्मप्रसारणं किम् ? मुखं व्याददाति छात्रः, नदी कूलं व्याददाति । आत्मग्रहणं किम् ? व्याददते पिपीलिकाः पतङ्गस्य मुखम् । परप्रसारणे प्रतिषेधंबाधनार्थम् ।।४९२।४।
[दु० टी०]
आङो दा० । आदत्ते । अनात्मप्रसारण इति किम् ? आस्यं व्याददाति छात्रः, व्याददाति मुखं विपादिका, व्याददाति मुखं पिपीलिका, व्याददाति कूलं नदी, विवृणोतीत्यर्थः । अनात्मग्रहणं किम् ? व्याददते पिपीलिकाः पतङ्गस्य मुखम् ।। ४९२।४।
[वि० प०]
आङो दात्र० । आदत्ते । जुहोत्यादित्वाद् द्विवचनम्, अभ्यस्तानामाकारलोपः । अनात्मप्रसारण इति किम् ? मुखं व्याददाति छात्रः, व्याददाति नदी कूलम् । आत्मग्रहणं किम् ? परप्रसारणे प्रतिषेधो मा भूत - व्याददाति पिपीलिका पतङ्गस्य मुखम् । “आत्मने चानकारात्" (३।५।३९) इति नलोपः ।। ४९२।४।
[क० च०]
आङो० । आत्मशब्दोऽत्र आत्मीयवचनः । न च कर्तुरात्मसम्बन्धप्रसारणमित्यर्थः। कथं किं 'व्यादत्स्व विहङ्ग भीमवदनम्' इत्यत्र आत्मप्रसारणे आत्मनेपदमिति ? सत्यम् । दाञ्धातोरुभयपदित्वात् । तर्हि अनेन सूत्रेण किं कृतमिति चेद् अनात्मप्रसारणे आत्मनेपदमेवेति नियमार्थमिति । यद्यपि दाञ्धातोरेव आत्मप्रसारणवृत्तिता, न तु दानादिधातोः । तथापि नकारः सुखार्यः इति ।। ४९२।४।।